________________
SAA
261
श्रीआचाराजवृत्तिः
(सी०)
CARASACROSOCIOSA -AAAACOCAL
१३९१॥
इया इ वा लाइमा इ वा भज्जिमा इ वा बहुखज्जा इ वा, एयप्पगा० ना भासज्जा ॥ से० बहु० पेहाए तहावि एवं वहज्जा, तं०-रूढा इ वा बहुसंभूया इ वा थिरा इ वा ऊसढाइ वा गम्भिया इ वा पसुया इ वा ससारा इ वा, एयप्पगारं
भासं असावजं जाव भासि०॥ (सू० १३८) | स भिक्षुर्गवादिकं 'परिवृद्धकायं' पुष्टकार्य प्रेक्ष्य नैतद्वदेत् , तद्यथा-स्थूलोऽयं प्रमेदुरोऽयं तथा वृत्तस्तथा वध्यो वहनयोग्यो वा, एवं पचनयोग्यो देवतादेः पातनयोग्यो वेति, एवमादिकामन्यामप्येवंप्रकारां सावद्यां भाषां नो भाषेतेति ॥5 भाषणविधिमाह-स भिक्षुर्गवादिकं परिवृद्धकार्य प्रेक्ष्यैवं वदेत् , तद्यथा-परिवृद्धकायोऽयमित्यादि सुगममिति॥तथा-स भिक्षुः । |'विरूपरूपाः' नानाप्रकारा गाः समीक्ष्य नैतद्वदेत् , तद्यथा-दोहनयोग्या एता गावो दोहनकालो वा वर्त्तते तथा 'दम्यः' दमनयोग्योऽयं 'गोरहकः' कल्होटकः, एवं वाहनयोग्यो रथयोग्यो वेति, एवंप्रकारां सावद्यां भाषां नो भाषेतेति ॥ सति कारणे भाषणविधिमाह-स भिक्षुर्नानाप्रकारा गाः प्रेक्ष्य प्रयोजने सत्येवं ब्रूयात् , तद्यथा-'जुवंगवे'त्ति युवाऽयं गौः धेनुरिति वा रसवतीति वा, (हस्वः महान् महाव्ययो वा) एवं संवहन इति, एवंप्रकारामसावद्यां भाषां भाषेतेति ॥ किञ्च-स भिक्षुरुद्यानादिकं गत्वा महतो वृक्षान् प्रेक्ष्य नैवं वदेत् , तद्यथा-प्रासादादियोग्या अमी वृक्षा इति, एवमादिकां सावद्यां भाषां नोभाषेतेति ॥ यत्तु वदेत्तदाह-स भिक्षुस्तथैवोद्यानादिकं गत्वैवं वदेत् , तद्यथा-'जातिमन्तः' सुजातय इति, एवमादिका भाषामसावधां संयत एव भाषेतेति ॥ किश्च-स भिक्षुर्बहुसंभूतानि वृक्षफलानि प्रेक्ष्य नैवं वदेत् , तद्यथा-एतानि फलानि |'पक्कानि' पाकप्राप्तानि, तथा 'पाकखाद्यानि' बद्धास्थीनि गर्ताप्रक्षेपकोद्रवपलालादिना विपच्य भक्षणयोग्यानीति, तथा 'वेलोचितानि' पाकातिशयतो ग्रहणकालोचितानि, अतः परं कालं न विषहन्तीत्यर्थः, 'टालानि' अनवबद्धास्थीनि कोम-| लास्थीनीति यदुक्तं भवति, तथा 'द्वैधिकानि' इति पेशीसम्पादनेन द्वैधीभावकरणयोग्यानि वेति, एवमादिकां भाषांचूलिका १ फलगतां सावद्यां नो भाषेत ॥ यदभिधानीयं तदाह-स भिक्षुर्बहुसम्भूतफलानाबान् प्रेक्ष्यैवं वदेत् , तद्यथा-'अस-|
भाषा० ४
उद्देशः २ मर्थाः' अतिभरेण न शक्नुवन्ति फलानि धारयितुमित्यर्थः, एतेन पक्वार्थ उक्तः, तथा 'बहुनिवर्तितफलाः' बहूनि | निर्वर्त्तितानि फलानि येषु ते तथा, एतेन पाकखाद्यार्थ उक्तः, तथा 'बहुसम्भूताः' बहूनि संभूतानि पाकातिशयतो ग्रहणकालोचितानि फलानि येषु ते तथा, अनेन वेलोचितार्थ उक्तः, तथा 'भूतरूपाः' इति वा भूतानि रूपाण्यनवबद्धास्थीनि कोमलफलरूपाणि येषु ते तथा, अनेन टालाद्यर्थ उपलक्षितः, एवंभूता एते आम्राः, आस्रग्रहणं प्रधानोपलक्षणम् , एवंभूतामनवद्यां भाषां भाषेतेति ॥ किञ्च-स भिक्षुर्बहुसम्भूता ओषधीवीक्ष्य तथाऽप्येता नैतद्वदेत्, तद्यथा-पक्का नीला आर्द्राः छविमत्यः 'लाइमा' लाजायोग्या रोपणयोग्या वा, तथा 'भजिमाओ'त्ति पचनयोग्या भञ्जनयोग्या वा 'बहुखजा' बहुभक्ष्याः पृथुककरणयोग्या वेति, एवंप्रकारां सावद्यां भाषां नो भाषेत ॥ यथा च भाषेत तदाह-स भिक्षुर्बहुसंभूता ओषधीः प्रेक्ष्यैतद् ब्रूयात् , तद्यथा-रूढा इत्यादिकामसावद्या भाषां भाषेत ॥ किश्चसे मिक्खू वा० तहप्पगाराइं सदाई सुणिजा तहावि एयाई नो एवं वइजा, तंजहा-सुसदेत्ति वा दुसदेत्ति वा, एयप्प
॥३९१॥ गारं भासं सावज नो भासिज्जा ॥ से मि० तहावि ताई एवं वइज्जा, तंजहा-सुसरं सुसहित्ति वा दुसरं दुसदित्ति वा, एयप्पगारं असावजं जाव भासिज्जा, एवं स्वाइं किण्हेत्ति वा ५ गंधाई सुरमिगंधित्ति वा २ रसाई तित्ताणि वा ५ फासाई कक्खडाणि वा ८॥ (सू० १३९) स भिक्षुर्यद्यप्येतान् शब्दान् शृणुयात् तथाऽपि नैवं वदेत्, तद्यथा-शोभनः शब्दोऽशोभनो वा माङ्गलिकोऽमाङ्ग-| लिको वा, इत्ययं न व्याहर्तव्यः ॥ विपरीतं त्वाह-यथाऽवस्थितशब्दप्रज्ञापनाविषये एतद्वदेत् , तद्यथा-'सुसइंति | शोभनशब्द शोभनमेव ब्रूयाद्, अशोभनं त्वशोभनमिति ॥ एवं रूपादिसूत्रमपि नेयम् ॥ किञ्च
से भिक्खू वा वंता कोहं च माणं च मायं च लोभं च अणुदीइ निट्ठाभासी निसम्मभासी अतुरियभासी विवेगमासी समियाए संजए भासं भासिज्जा ५॥ एवं खलु. सया जइ (सू० १४०)त्तिबेमि ।। २-१-४-२ ।। भाषाऽध्ययनं
चतुर्थम् ।। २-१-४॥ स भिक्षुः क्रोधादिकं वान्त्वैवंभूतो भवेत् , तद्यथा-अनुविचिन्त्य निष्ठाभाषी निशम्यभाषी अत्वरितभाषी विवेकभाषी| भाषासमित्युपेतो भाषां भाषेत, एतत्तस्य भिक्षोः सामग्यमिति ॥ चतुर्थमध्ययनं भाषाजाताख्य २-१-४ समाप्तमिति ।। ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org