SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ 229 ARMANAS तच्च पृथुकादिकं सचित्तमचित्तं वा चित्तमत्यां शिलायां कुदृयित्वा 'उप्फर्णिसु'त्ति साध्वर्थ वाताय दत्तवन्तो ददति दा-10 स्यन्ति वा, तदेवं तथाप्रकारं पृथुकादि ज्ञात्वा लाभे सति नो प्रतिगृह्णीयादिति ॥ किञ्च से भिक्खू वा २ जाव समाणे से जं. विलं वा लोणं उभियं वा लोणं अस्संजए जाव संताणाए भिंदिसु ३ रुचिंसु वा ३ बिलं वा लोणं उभियं वा लोणं अफासुयं० नो पडिगाहिजा ॥ (सू० ३५) ___ स भिक्षुर्यदि पुनरेवं विजानीयात् , तद्यथा-बिलमिति खनिविशेषोत्पन्नं लवणम् , अस्य चोपलक्षणार्थत्वात्सैन्धवसौवर्चलादिकमपि द्रष्टव्यं, तथोद्भिजमिति समुद्रोपकण्ठे क्षारोदकसम्पर्काद् यदुद्भिद्यते लवणम्, अस्याप्युपलक्षणार्थत्वारक्षारोदकसेकाद्यद्भवति रुमकादिकं तदपि ग्राह्य, तदेवंभूतं लवणं पूर्वोक्तविशेषणविशिष्टायां शिलायामभैत्सुः-कणिकाकारं कुर्युः, तथा साध्वर्थमेव भिन्दन्ति भेत्स्यन्ति वा तथा श्लक्ष्णतरार्थ 'रुचिंसुव'त्ति पिष्टवन्तः पिंपन्ति पेक्ष्यन्ति वा, तदपि लवणमेवंप्रकारं ज्ञात्वा नो (प्रति) गृह्णीयात् ॥ अपि च से भिक्खू वा० से ० असणं वा ४ अगणिनिक्खित्तं तहप्पगारं असणं वा ४ अफासुयं नो०, केवली बूया आयाणमेयं, अस्संजए भिक्खुपडियाए उस्सिचमाणे वा निस्सिंचमाणे वा आमज्जमाणे वा पमजमाणे वा ओयारेमाणे वा उब्वत्तमाणे वा अगणिजीवे हिंसिज्जा, अह मिक्खूणं पुव्वोवइट्ठा एस पइन्ना एस हेऊ एस कारणे एसुवएसे जं तहप्पगारं असणं वा ४ अगणिनिक्खित्तं अफासुयं नो० पडि० एयं० सामग्गियं ॥ (सू० ३६) ।। पिण्डैषणायां षष्ठ उद्देशकः २-१-१-६॥ स भिक्षुर्रहपतिकुलं प्रविष्टश्चतुर्विधमप्याहारमन्नावुपरि निक्षिप्तं तथाप्रकारं ज्वालासंबद्धं लाभे सति न प्रतिगृहीयात् । अत्रैव दोषमाह-केवली श्रूयात् 'आदान' कर्मादानमेतदिति, तथाहि 'असंयतः' गृहस्थो भिक्षुपतिज्ञया तत्रा श्रुतस्क० म्युपरिव्यवस्थितमाहारम् 'उत्सिञ्चन्' आक्षिपन् “नि:सिञ्चन्' दत्तोद्वरित प्रक्षिपन्, तथा 'आमर्जयन्' सकृद्धस्तादिना शोधयन् , तथा प्रकर्षण मार्जयन्-शोधयन् , तथाऽवतारयन् , तथा 'अपवर्तयन्' तिरश्चीनं कुर्वन्तग्निजीवान् हिंस्या * पिण्डैष०१ दिति । 'अथ' अनन्तरं 'भिक्षूणां' साधूनां पूर्वोपदिष्टा एषा प्रतिज्ञा एष हेतुरेतत्कारणमयमुपदेशः यत्तथाप्रकारमनिसं | उद्देशः बडमशनाधग्निनिक्षिप्तमप्रासुकमनेषणीयमिति ज्ञात्वा लाभे सति न प्रतिगृह्णीयात्, एतत्खलु भिक्षोः 'सामग्य' समग्रो भिक्षुभाव इति ॥ प्रथमाध्ययनस्य षष्ठ उद्देशकः समाप्तः॥२-१-१-६ ॥ मा. सू. ५८11 चूलिका राङ्गवृत्तिः (शी०) ॥ ४३॥ ॥३४३॥ षष्ठोद्देशकानन्तरं सप्तमः समारभ्यते, अस्य चायमभिसम्बन्ध:-इहानन्तरोद्देशके संयमविराधनाऽभिहिता, इह तु संयमात्मदातृविराधना तया च विराधनया प्रवचनकुत्सेत्येतदत्र प्रतिपाद्यत इति से भिक्खू वा २ से जं. असणं वा ४ खधंसि वा थंभंसि वा मंचंसि वा मालंसि वा पासायंसि वा हम्मियतलंसि वा अन्नयरंसि वा तहप्पगारंसि अंतलिक्खजायंसि उवनिक्खित्ते सिया तहप्पगारं मालोहडं असणं वा ४ अफासुयं नो०, केवली बूया आयाणमेयं, अस्संजए भिक्खुपडियाए पीढं वा फलगं वा निस्सेणिं वा उदूहलं वा आहट्ट उस्सबिय दुरूहिज्जा, से ता नम्हमाणे पयलिज वा पवडिज वा, से तत्थ पयलमाणे वा २ हत्थं वा पायं वा बाहं वा ऊरं वा उदरं वा सीसं वा अन्नयरं वा कार्यसि इंदियजालं लूसिज वा पाणाणि वा ४ अभिहणिज्ज वा वित्तासिज वा लेसिज वा संघसिज वा संघट्टिज वा परियाविज वा किलामिज वा ठाणाओ ठाणं संकामिज वा, तं तहप्पगारं मालोहडं असणं वा ४ लाभे संते नो पडिगाहिज्जा, से भिक्खू वा २ जाव समाणे से जं. असणं वा ४ कुट्ठियाओ वा कोलेज्जाउ वा अस्संजए भिक्खुपडियाए उकुजिय अवउज्जिय ओहरिय आहट्ट दलइजा, तहप्पगारं असणं वा ४ लाभे संते नो पडिगाहिज्जा ॥ (सू०३७)। स भिक्षुर्भिक्षार्थ प्रविष्टः सन् यदि पुनरेवं चतुर्विधमण्याहारं जानीयात् , तद्यथा-'स्कन्धे' अर्द्धप्राकारे 'स्तम्भे वा। शैलदारुमयादी, तथा मञ्चके वा माले वा प्रासादे वा हर्म्यतले वा अन्यतरस्मिन् वा तथाप्रकारेऽन्तरिक्षजाते स आहारः 'उपनिक्षिप्तः' व्यवस्थापितो भवेत् , तं च तथाप्रकारमाहारं मालाहृतमिति मत्वा लाभे सति न प्रतिगृह्णीयात् , केवली ब्रूयाद्यत आदानमेतदिति, तथाहि-असंयतो भिक्षुप्रतिज्ञया साधुदानार्थ पीठकं वा फलकं वा निश्रेणिं वा उदुखलं वाऽऽहत्य-ऊर्च व्यवस्थाप्यारोहेत् , स तत्रारोहन प्रचलेद्वा प्रपतेद्वा, स तत्र प्रचलन् प्रपतन् वा हस्तादिकमन्यतरद्वा काये इन्द्रियजातं 'लूसेज'त्ति विराधयेत् , तथा प्राणिनो भूतानि जीवान् सत्त्वानभिहन्याद्वित्रासयेद्वा लेषयेद्वा-संश्लेष वा कुर्यात् तथा संघर्ष वा कुर्यात् तथा सङ्घाई वा कुर्यात्, एतच्च कुर्वस्तान् परितापयेद्वा क्लामयेद्वा स्थानात्स्थानं सङ्कामयेद्वा, तदेतज्ज्ञात्वा यदाहारजातं तथाप्रकारं मालाहृतं तल्लाभे सति नो प्रतिगृह्णीयादिति ॥ स भिक्षुर्यदि पुनरेवंभूतमाहारं जानीयात् , तद्यथा-'कोष्ठिकातः' मृन्मयकुशूलसंस्थानायाः तथा 'कोलेजाओ'त्ति अधोवृत्सखाताकाराद् असंयतः 'भिक्षुप्रतिज्ञया' साधुमुद्दिश्य कोष्ठिकातः 'उकुजिय'त्ति ऊर्द्धकायमुन्नम्य ततः कुब्जीभूय, तथा कोलेजाओ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy