________________
214
श्रुतस्कं०२ उपोद्घातः
(शी.)
॥३२॥
*
.
एगविहो पुण सो संजमुत्ति अज्झत्थ बाहिरो यदुहा । मणवयणकाय तिविहो चउब्विहो चाउजामो उ॥१२॥ पंच य महन्वयाई तु पंचहा राइभोअणे छट्ठा । सीलंगसहस्साणि य आयरस्सप्पवीभागा ॥१३॥ ___ अविरतिनिवृत्तिलक्षण एकविधः संयमः, स एवाध्यात्मिकबाह्यभेदाद् द्विधा भवति, पुनर्मनोवाक्काययोगभेदात्रिविधः, स एव चतुर्यामभेदाच्चतुर्धा, पुनः पञ्चमहाव्रतभेदात्पञ्चधा, रात्रीभोजनविरतिपरिग्रहाच्च पोढा, इत्यादिकया प्रक्रियया भिद्यमानो यावदष्टादशशीलाङ्गसहस्रपरिमाणो भवतीति ॥ किं पुनरसौ संयमस्तत्र तत्र प्रवचने पञ्चमहाव्रतरूपतया भिद्यते ? इत्याह
आइक्खि विभइ विना चेव सुहतर होइ । एएण कारणेणं महव्वया पंच पन्नत्ता ॥ १४ ॥ संयमः पञ्चमहाव्रतरूपतया व्यवस्थापितः सन्नाख्यातुं विभक्तुं विज्ञातुं च सुखेनैव भवतीत्यतः कारणात्पञ्चमहावतानि प्रज्ञाप्यन्ते ॥ एतानि च पञ्च महाव्रतानि अस्खलितानि फलवन्ति भवन्त्यतो रक्षायलो विधेयस्तदर्थमाह
तेसिं च रक्खणट्ठा य भावणा पंच पंच इक्किक्के । ता सत्थपरिन्नाए एसो अभितरो होई ॥१५॥ 'तेषां च' महाव्रतानामेकैकस्य तद्वृत्तिकल्पाः पञ्च पञ्च भावना भवन्ति, ताश्च द्वितीयाग्रश्रुतस्कन्धे प्रतिपाद्यन्तेऽतोऽयं शस्त्रपरिज्ञाध्ययनाभ्यन्तरो भवतीति ॥ साम्प्रतं चूडानां यथास्वं परिमाणमाह__ जावोग्गहपडिमाओ पढमा सत्तिकगा बिहअचूला। भावण विमुत्ति आयारपक्कप्पा तिन्नि इअ पंच ॥१६॥
१ अहारसगस्स निप्फत्ती प्र. एसो उ अब्भन्तरो होइ प्र.
4
4
॥ ३२
॥
+
+
+
पिण्डैषणाध्ययनादारभ्यावग्रहप्रतिमाध्ययनं यावदेतानि सप्ताध्ययनानि प्रथमा चूडा, सप्तसप्तैकका द्वितीया, भावना तृतीया, विमुक्तिश्चतुर्थी, आचारप्रकल्पो निशीथः, सा च पञ्चमी चूडेति । तत्र चूडाया निक्षेपो नामादिः पड्डिधः, नामस्थापने क्षुण्णे, द्रव्यचूडा व्यतिरिक्ता सचित्ता कुर्कुटस्य अचित्ता मुकुटस्य चूडामणिः मिश्रा मयूरस्य, क्षेत्रचूडा लोकनिष्कुटरूपा, कालचूडाऽधिकमासकस्वभावा, भावचूडा त्वियमेव, क्षायोपशमिकभाववर्तित्वात् । इयं च सप्ताध्ययनात्मिका, तत्राद्यमध्ययन पिण्डैषणा, तस्य चत्वार्यनुयोगद्वाराणि भवन्ति, यावन्नामनिष्पन्ने निक्षेपे पिण्डैपणाऽध्ययनं, तस्य निक्षेपद्वारेण सर्वा पिण्डनियुक्तिरत्र भणनीयेति ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
से भिक्खू वा भिक्खुणी वा गाहावइकुलं पिंडवायपडियाए अणुपविट्ठे समाणे से जं पुण जाणिज्जा-असणं वा पाणं वा खाइमं वा साइमं वा पाणेहिं वा पणगेहिं वा बीएहिं वा हरिएहिं वा संसत्तं उम्मिस्सं सीओदएण वा ओसित्तं रयसा वा परिधोसियं वा तहप्पगारं असणं वा पाणं वा खाइमं वा साइमं वा परहत्थंसि वा परपायंसि वा अफासुयं अणेसणिजंति मन्नमाणे लाभेऽवि संते नो पडिग्गाहिज्जा ॥से य आहच पडिग्गहे सिया से तं आयाय एगतमवकमिजा, एगंतमवकमित्ता अहे आरामंसि वा अहे उवस्सयंसि वा अप्पंडे अप्पपाणे अप्पबीए अप्पहरिए अप्पोसे अप्पुदए अप्पुत्र्तिगपणगदगमट्टियमक्कडासंताणए विगिंचिय २ उम्मीसं विसोहिय २ तओ संजयामेव अॅजिज्ज वा पीइज्ज वा, जं च नो संचाइज्जा भुत्तए वा पायए वा से तमायाय एगंतमवक्कमिजा, अहे झामथंडिलंसि वा अहिरासिंसि वा किट्टरासिसि वा तुसरा१ परिवासियं प्र. एवं वृत्तावपि प्र. सिसि वा गोमयरासिसि वा अन्नयरंसि वा तहप्पगारंसि थंडिलंसि पडिलेहिय पडिलेहिय पमज्जिय पमज्जिय तओ संज
श्रुतस्कं०२ यामेव परिविजा ॥ (सू. १)
चूलिका १ 'से' इति मागधदेशीवचनतः प्रथमान्तो निर्देशे वर्त्तते, यः कश्चिद्भिक्षणशीलो भावभिक्षुर्मूलोत्तरगुणधारी विवि
पिण्डष०१ धाभिग्रहरतः 'भिक्षुणी वा' साध्वी, स भावभिक्षुर्वेदनादिभिः कारणैराहारग्रहणं करोति, तानि चामूनि-"वेअण १
उद्देशः १ वेआवच्चे २ इरियहाए य ३ संजमहाए ४ । तह पाणवत्तियाए ५ छह पुण धम्मचिंताए ६ ॥१॥” इत्यादि, अमीषां मध्येऽन्यतमेनापि कारणेनाहारार्थी सन् गृहपतिः-गृहस्थस्तस्य कुलं-गृहं तदनुप्रविष्टः, किमर्थं ?–'पिंडवायपडियाए'त्ति || पिण्डपातो-भिक्षालाभस्तत्प्रतिज्ञया-अहमत्र भिक्षां लप्स्य इति, स प्रविष्टः सन् यत्पुनरशनादि जानीयात् , कथमिति दर्शयति-'प्राणिभिः' रसजादिभिः 'पनकैः' उल्लीजीवैः संसक्तं 'बीजैः' गोधूमादिभिः 'हरितैः' दूर्वाऽङ्करादिभिः 'उन्मिभं' शबलीभूतं, तथा शीतोदकेन वा 'अवसिक्तम्' आकृतं 'रजसा वा' सचित्तेन 'परिघासिय'ति परिगुण्डितं, |कियद्वा वक्ष्यति ? 'तथाप्रकारम्' एवंजातीयमशुद्धमशनादि चतुर्विधमप्याहारं 'परहस्ते' दातृहस्ते परपात्रे वा स्थितम् 'अप्रासुकं' सचित्तम् 'अनेषणीयम्' आधाकर्मादिदोषदुष्टम् 'इति' एवं मन्यमानः 'स' भावभिक्षुः सत्यपि लाभे |न प्रतिगृह्णीयादित्युत्सर्गतः, अपवादतस्तु द्रव्यादि ज्ञात्वा प्रतिगृह्णीयादपि, तत्र द्रव्यं दुर्लभद्रव्यं क्षेत्रं साधारणद्रव्यलाभरहितं सरजस्कादिभावितं वा कालो दुर्भिक्षादिः भावो ग्लानतादिः, इत्यादिभिः कारणैरुपस्थितैरल्पबहुत्वं ४॥३२१॥
१ वेदना वैयावृत्त्यं इयर्थ च संयमार्थ च । तथा प्राणप्रत्ययाय षष्ठं पुनर्धर्मचिन्तायै ॥१॥
श्रीनाचाराङ्गवृत्तिः (शी०)
॥३२१॥
XMAMATA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org