________________
207
-
राह-एस विही इत्याद्यनन्तरोद्देशकवन्नेयमिति । इतिव्रवीमीतिशब्दौ पूर्ववत् । उपध्यानश्रुतस्य द्वितीयोदेशकः परिद समाप्त इति ॥
उक्तो द्वितीयोदेशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके भगवतः शय्याः प्रतिपा-13 दिताः, तासु च व्यवस्थितेन ये यथोपसर्गाः परीपहाश्च सोढास्तत्प्रतिपादनार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्
तणफासे सीयफासे य तेउफासे य दंसमसगे य । अहियासए सया समिए फासाई विरूवरूवाइं ॥ १॥ अह दुच्चरलाढमचारी वजभूमिं च सुब्भभूमिं च । पंतं सिजं सेविंसु आसणगाणि चेव पंताणि ॥ २॥ लाढेहिं तस्सुवसग्गा बहवे जाणवया लूसिंसु । अह लूहदेसिए भत्ते कुकुरा तत्थ हिंसिंसु निवइंसु ॥ ३॥ अप्पे जणे निवा
रेइ लूसणए सुणए दसमाणे । छच्छकारिंति आहंसु समणं कुक्करा दसंतत्ति ॥४॥ तृणानां-कुशादीनां स्पर्शास्तृणस्पर्शाः तथा शीतस्पर्शाः तथा तेजःस्पर्शा-उष्णस्पर्शाश्चातापनादिकाले आसन् यदिवा
गच्छतः किल भगवतस्तेजःकाय एवासीत्, तथा दंशमशकादयश्च, एतान् तृणस्पर्शादीन् 'विरूपरूपान्' नानाभूतान् | श्रीआचा- भगवानध्यासयति, सम्यगित:-सम्यग्भावं गतः समितिभिः समितो वेति ॥ किं च-'अथ' आनन्तर्ये दुःखेन चर्यते - उपधा०९ राङ्गवृत्तिः | स्मिन्निति दुश्चरः स चासौ लाढश्च-जनपदविशेषो दुश्चरलाढस्तं चीर्णवान-विहृतवान् , स च द्विरूपो-वज्रभूमिः शुभ्रभू-का
उद्देशका (शी०) मिश्च, तं द्विरूपमपि विहृतवान् , तत्र च प्रान्तां 'शय्यां' वसतिं शून्यगृहादिकामनेकोपद्रवोपद्रुता सेवितवान् , तथा प्रान्तानि
चासनानि-पांशूत्करशर्करालोष्टाद्युपचितानि च काष्ठानि च दुर्घटितान्यासेवितवानिति ॥ किं च-लाढा नाम जनप-1 ॥३१॥
दविशेषास्तेषु च द्विरूपेष्वपि लाढेषु 'तस्य' भगवतो बहव उपसर्गाः प्रायशः प्रतिकूला आक्रोशश्वभक्षणादय आसन् , तानेव दर्शयति-जनपदे भवा जानपदा-अनार्याऽऽचारिणो लोकाः ते भगवन्तं लूपितवन्तो-दन्तभक्षणोल्मुकदण्डप्रहारादिभिर्जिहिंसुः, अधशब्दोऽपिशब्दार्थे, स चैवं द्रष्टव्यः, भक्तमपि तत्र 'रूक्षदेश्य' रूक्षकल्पमन्तप्रान्तमितियावत् , ते |चानार्यतया प्रकृतिकोधनाः कर्पासाधभावत्वाच्च तृणप्रावरणाः सन्तो भगवति विरूपमाचरन्ति, तथा तत्र 'कुर्कुराः' श्वानस्ते च जिहिंसुः, उपरि च निपेतुरिति ।। किं च-'अल्पः' स्तोकः स जनो यदि परं सहस्राणामेको यदिवा नास्त्येवासाविति यस्तान् शुनो लूषकान् दशतो 'निवारयति' निषेधयति, अपि तु दण्डप्रहारादिभिर्भगवन्तं हत्वा तत्प्रेरणाय सीत्कुवन्ति, कथं नामैनं श्रमणं कुर्कुराः श्वानो दशन्तु-भक्षयन्तु, तत्र चैवंविधे जनपदे भगवान् षण्मासावधि कालं स्थितवानिति ॥ किं च
%2549-ॐ4%A5-01-04-
02th
%*%
॥३१०॥
4
एलिक्खए जणा भुजो बहवे वजभूमि फरुसासी । लढेि गहाय नालियं समणा तत्थ य विहरिंसु ॥ ५॥ एवंपि तत्थ विहरन्ता पुट्टपुव्वा अहेसि सुणिएहिं । संलुश्चमाणा सुणएहिं दुश्चराणि तत्थ लाढेहिं ॥ ६॥ निहाय दण्डं पाणेहिं तं कायं वोसज्जमणगारे । अह गामकण्टए भगवन्ते अहिआसए अभिसमिच्चा ॥ ७॥ नागो संगामसीसे वा पारए तत्थ से महावीरे । एवंपि तत्थ लाहिं अलद्धपुवोवि एगया
गामो ॥८॥ 'इदृक्षः' पूर्वोक्तस्वभावो यत्र जनस्तं तथाभूतं जनपदं भगवान् 'भूयः' पौनःपुन्येन विहृतवान् , तस्यां च वज्रभूमौ बह्वो जनाः परुषाशिनो-रूक्षाशिनो रूक्षाशितया च प्रकृतिक्रोधनास्ततो यतिरूपमुपलभ्य कदर्थयन्ति, ततस्तत्रान्ये श्रमणाः शाक्यादयो यष्टिं-देहप्रमाणां चतुरङ्गुलाधिकप्रमाणां वा नालिकां गृहीत्वा श्वादिनिषेधनाय विजहुरिति । किं च-एवमपि यष्ट्यादिकया सामग्या श्रमणा विहरन्तः 'स्पृष्टपूर्वा' आरब्धपूर्वाः श्वभिरासन् , तथा संलुच्यमाना' इतश्चेतश्च भक्ष्यमाणाः श्वभिरासन् , दुर्निवारत्वात्तेषां, 'तत्र' तेषु लाढेष्वार्यलोकानां दुःखेन चर्यन्त इति दुश्चराणि-ग्रामादीनीति ॥ तदेवंभूतेष्वपि लाढेषु कथं भगवान् विहृतवानिति दर्शयितुमाह-प्राणिषु यो दण्डनाइण्डो-मनोवाक्कायादिकस्तं भगवान् निधाय' त्यक्त्वा, तथा तच्छरीरमप्यनगारो व्युत्सृज्याथ 'ग्रामकण्टकान्' नीचजनरूक्षालापानपि भगवांस्तांस्तान् सम्यक्करणतया निर्जरामभिसमेत्य-ज्ञात्वाऽध्यासयति-अधिसहते ॥ कथमधिसहत इति दृष्टान्तद्वारेण दर्शयितुमाह-'नागो'हस्ती य
गदिक
वारत्वात्तेषां, 'तत्र' त
-प्राणिषु यो दण्डालापानपि भग
779XXXA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org