________________
206
श्रीआचाराङ्गवृत्तिः
(शी०)
॥३०८॥
को इत्थ? अहमंसित्ति भिक्खु आहहु । अयमुत्तमे से धम्मे तुसिणीए कसाइए झाइ ॥१२॥
उपधा०९ इहलोके भवा ऐहलौकिकाः-मनुष्यकृताः के ते?-'स्पर्शाः' दुःखविशेषा दिव्यास्तैरश्चाश्च पारलौकिकास्तानुपसर्गापादि- | उद्देशका तान् दुःखविशेषानध्यासयति-अधिसहते, यदिवा इहैव जन्मनि ये दुःखयन्ति दण्डप्रहारादयः प्रतिकूलोपसर्गास्त ऐहलो-4 किकाः, तद्विपर्यस्तास्तु पारलौकिकाः, 'भीमा' भयानका 'अनेकरूपाः' नानाप्रकाराः, तानेव दर्शयति-अपि सुरभिगन्धाः-म्रक्चन्दनादयो दुर्गन्धाः-कुथितकडेवरादयः, तथा शब्दाश्चानेकरूपा वीणावेणुमृदङ्गादिजनिताः, तथा क्र-| मेलकरसिताद्युत्थापितास्तांश्चाविकृतमना 'अध्यासयति' अधिसहते, 'सदा' सर्वकालं सभ्यगितः समितः-पञ्चभिः समितिभिर्युक्तः, तथा स्पर्शान-दुःखविशेषानरतिं संयमे रति चोपभोगाभिष्वङ्गेऽभिभूय-तिरस्कृत्य 'रीयते' संयमानुष्ठाने ६ ब्रजति, 'माहणे'त्ति पूर्ववत् 'अबहुवादी' अबहुभाषी, एकद्विव्याकरणं क्वचिन्निमित्ते कृतवानिति भावः ॥ 'स' भगवानर्द्धत्रयोदश पक्षाधिकाः समा एकाकी विचरन् तत्र शून्यगृहादौ व्यवस्थितः सन् 'जनैः' लोकः पृष्टः, तद्यथा-को भवान् ? किमत्र स्थितः? कुतस्त्यो वेत्येवं पृष्टोऽपि तूष्णींभावमभजत्, तथोपपत्याद्या अप्येकचरा-एकाकिन एकदा-कदाचिद्रात्रावह्नि वा पप्रच्छुः, अव्याहृते च भगवता कपायिताः ततो ज्ञानावृतदृष्टयो दण्डमुष्ट्यादिताडनतोऽनायेत्वमाचरन्ति, भगवांस्तु तत्समाधि प्रेक्षमाणो धर्मध्यानोपगतचित्तः सन् सम्यक्तितिक्षते, किंभूतः१–'अप्रतिज्ञो' नास्य वैरनिर्यातनप्रतिज्ञा विद्यत इत्यप्रतिज्ञः॥ कथं ते पप्रच्छुरिति दर्शयितुमाह-अयमन्तः-मध्ये कोऽत्र व्यवस्थितः?, एवं सङ्कतागता|
॥३०८॥ दुश्चारिणः पृच्छन्ति कर्मकरादयो वा, तत्र नित्यवासिनो दुष्प्रणिहितमानसाः पृच्छन्ति, तत्र चैवं पृच्छतामेषां भगवांस्तूष्णीभावमेव भजते, क्वचिद्बहुतरदोषापनयनाय जल्पत्यपि, कथमिति दर्शयति-अहं भिक्षुरस्मीति, एवमुक्ते यदि ते|ऽवधारयन्ति ततस्तिष्ठत्येव, अथाभिप्रेतार्थव्याघातात् कपायिता मोहान्धाः साम्प्रतेक्षितयैवं ब्रूयुः, यथा-तूर्णमस्मास्थानान्निर्गच्छ, ततो भगवानचियत्तावग्रह इतिकृत्वा निर्गच्छत्येव, यदिवा न निर्गच्छत्येव भगवान् किंतु सोऽयमुत्तमः प्रधानो धर्म आचार इतिकृत्वा स कपायितेऽपि तस्मिन् गृहस्थे तूष्णीभावव्यवस्थितो यद्भविष्यत्तया ध्यायत्येव-न ध्यानात्प्रच्यवते ॥ किंच
जंसिप्पेगे पवेयन्ति सिसिरे मालए पवायन्ते । तंसिप्पेगे अणगारा हिमवाए निवायमेसन्ति ॥ १३ ॥ संघाडीओ पवेसिस्सामो एहा य समादहमाणा । पिहिया व सक्खामो अइदुक्खे हिमगसंफासा ॥ १४ ॥ तंसि भगवं अपडिन्ने अहे विगडे अहीयासए । दविए निक्खम्म एगया राओ ठाइए भगवं समियाए ॥ १५ ॥ एस विही अणुकन्तो माहणेण मईमया । बहुसो अपडिण्णेण भगवया एवं रीयन्ति ॥ १६ ॥ त्तिबेमि ॥ नवमस्य द्वितीय उद्देशकः ९-२॥ यस्मिन् शिशिरादावप्येके त्वक्त्राणाभावतया 'प्रवेपन्ते' दन्तवीणादिसमन्विताः कम्पन्ते, यदिवा 'प्रवेदयन्ति'
श्रीआचा- शीतजनितं दुःखस्पर्शमनुभवन्ति, आर्तध्यानवशगा भवन्तीत्यर्थः, तस्मिंश्च शिशिरे हिमकणिनि मारुते च प्रवाति स- उपधा०९ राङ्गवृत्तिः त्येके न सर्वे 'अनगारा' तीर्थिकप्रबजिता हिमवाते सति शीतपीडितास्तदपनोदाय पावकं प्रज्वालयन्ति-अङ्गारशक(शी०) टिकामन्वेषयन्ति, प्रावारादिकं याचन्ते, यदिवाऽनगारा इति-पार्श्वनाथतीर्थप्रव्रजिता गच्छवासिन एव शीतार्दिता
| उद्देशकः२ निवातमेषन्ति-घशालादिकावसतीवातायनादिरहिताः प्रार्थयन्ति ॥ किं च-इह सङ्घाटीशब्देन शीतापनोदक्षम कल्प॥३०९॥
द्वयं त्रयं वा गृह्यते, ताः सहाटीः शीतार्दिता वयं प्रवेश्यामः, एवं शीतार्दिता अनगारा अपि विदधति, तीर्थिकप्रवजितास्त्वेधाः-समिधः काष्ठानीतियावद् एताश्च समादहन्तः शीतस्पर्श सोढुं शक्ष्यामः, तथा संघाच्या वा पिहिताः-स्थगिताः कम्बलाद्यावृतशरीरा इति, किमर्थमेतत्कुर्वन्तीति दर्शयति-यतोऽतिदुःखमेतद्-अतिदुःसहमेतद्यदुत हिमसंस्पर्शाःशीतस्पर्शवेदना दुःखेन सह्यन्त इतियावत् । तदेवमेवंभूते शिशिरे यथोक्तानुष्ठानवत्सु च स्वयूथ्येतरेवनगारेषु यद्भगवान् व्यधात्तदर्शयितुमाह-तस्मिन्' एवंभूते शिशिरे हिमवाते शीतस्पर्श च सर्वकषे 'भगवान्' ऐश्वर्यादिगुणोपेतस्तं शीतस्पर्शमध्यासयति-अधिसहते, किंभूतोऽसौ?–'अप्रतिज्ञो' न विद्यते निवातवसतिप्रार्थनादिका प्रतिज्ञा यस्य स तथा,
काध्यासयति?'अधो विकटे' अध:-कुड्यादिरहिते छन्नेऽप्युपरि तदभावेऽपि चेति, पुनरपि विशिनष्टि-रागद्वेषविरदहाव्यभूतः कर्मग्रन्धिद्रावणाद्वा द्रवः-संयमः स विद्यते यस्यासौ द्रविकः, स च तथाऽध्यासयन् यद्यत्यन्तं शीतेन बा-15
ध्यते ततस्तस्मात् छन्नान्निष्क्रम्य बहिरेकदा-रात्री मुहूर्त्तमात्रं स्थित्वा पुनः प्रविश्य स भगवान् शमितया सम्यग्वा सम- ॥३०९॥ तया वा व्यवस्थितः सन् तं शीतस्पर्श रासभदृष्टान्तेन सोढुं शक्नोति-अधिसहत इति ॥ एतदेवोदेशकार्थमुपसंजिहीर्ष-1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org