________________
प्रस्तावना
द्वादशमङ्ग दृष्टिवादः सम्प्रति नास्ति, अतः ११ अङ्गानि+१२ उपाङ्गानि+१० प्रकीर्णकाः+६ छेदसूत्राणि+द्वे चूलिकासूत्रे+४ मूलसूत्राणि-इत्येवं ४५ आगमाः श्वेताम्बरमूर्तिपूजकजनपरंपरायां सम्प्रति प्रसिद्धाः। तेषु प्राद्यमङ्गसूत्रद्वयमस्मिन् ग्रन्थे प्रकाश्यते।
भाषा–यद्यपि सर्वेऽपीमे ४५ आगमग्रन्था अर्धमागध्यां भाषायां गणधरभगवद्भिविरचितास्तथापि कालक्रमेण केचिद् भाषायाः संस्कारास्तेषु सजाताः । किन्तु प्राचाराङ्ग-सूत्रकृताङ्गयोरुपलभ्यमाना भाषा अतिप्राचीनेति ऐतिह्यविदो बदन्ति । अनयोः किञ्चित् स्वरूपमत्र क्रमेण प्रस्तूयते--
प्राचारागसूत्रम् द्वादशाङ ग्यां प्रथममाचाराङ्गसूत्रं जनानां किल वेदः । अस्य प्राथम्यं प्राधान्यं च जिनप्रवचनसारभूतत्वादिना हेतुकलापेन प्राचाराङ्गनियुक्तौ [गाथाः ८-११] भगवता भद्रबाहुस्वामिना परमेण बहुमानेन वर्णितम्, दृश्यतां पृ. ४ ।
विभागाः--आचाराङ्गसूत्रस्य द्वौ मुख्यविभागौ, एतौ च 'श्रुतस्कन्धौ' इति व्यपदिश्यते। तत्र प्रथम प्राचाराख्यः श्रुतस्कन्धः, असौ च ब्रह्मचर्यनाम्नापि—नवाध्ययनात्मकत्वाद् नवब्रह्मचर्यनाम्नापि-प्रसिद्धः । तस्यैव पञ्चचूलिकारूपो' द्वितीयः श्रुतस्कन्धः,
१. "सव्वेसि आयारो तित्थस्स पवत्तणे पढमयाए । सेसाई अंगाई एक्कारस आणुपुवीए ॥ ८ ॥
आयारो अंगाणं पढ मं अंग दुवालसण्हं पि । एत्थ य मोक्खोवानो एत्थ य सारो पवयणस्स ॥ ९॥ पायारम्मि अहीए जं णाम्रो होई समणधम्मो उ । तम्हा आयारधरो भण्णइ पढमं गणिवारणं ॥ १०॥
नवबंभचेरमइयो अट्ठारसपयसहस्सिमो वेदो । हवइ य स पंचचूलो बहु-बहुतरो पयग्गेणं ॥११॥"-आचाराङ्गनियुक्तिः ।
"से किं तं पुव्वगतं ? ति, उच्यते--जम्हा तित्थकरो तित्थपवत्तणकाले गणधराण सव्वसुताधारत्तणतो पुव्वं पुव्वगतसुत्तत्थं भासति तम्हा पुव्व त्ति भणिता, गणधरा पुण सुत्तरयणं करेंता आयाराइकमेण रयंति ट्ठति य । अण्णायरियमतेणं पुण पुव्वगतसुत्तत्थो पुव्वं अरहता भासितो, गणहरेहि वि पुवगतसुत्तं चेव पुव्वं रइतं, पच्छा आयाराइ। एवमुक्त चोदक आह--णणु पुवावरविरुद्धं, कम्हा? जम्हा आयारनिज्जुत्तीए भणितं “सब्बेसि आयारो०" गाहा [प्राचाराङ्गनियुक्ति गा० ८] । आचार्याऽऽह--सत्यमुक्तं, किंतु सा ठवणा, इमं पुण अक्खररयणं पडुच्च भणितं, पुव्वं पुब्वा कता इत्यर्थः ।" --नन्दीचूणिः पृ० ७५ । नन्दीवृत्तिः हारिभद्री पृ०८८ । समवायांगवृत्तिः पृ० १३०-१३१ ।।
"इयाणि पवत्तणं-सव्वेसि आयारो० (गा०८) गाहा। सव्वतित्थगरा वि आयारस्स अत्थं पढमाइक्खंति, ततो सेसगाणं एक्कारसण्हं अंगाणं, ताए च्चेव परिवाडीए गणहरा वि सुत्तं गंथंति। इयाणि पढमंगं ति, किंनिमित्तं आयारो पढमं ठवियो? एत्थ गाहा-आयारो अंगाणं० (गा० ९)। जेण कारणेण एत्थ आयारो चरणं चेव मोक्खस्स सारो, तत्थ य ठितो सेसाणि अंगाणि अहिज्जइ, तेण सो पढमं कतो।" --आचारांगचूणि: ।
“इदानी प्रवर्तनाद्वारम् । कदा पुनर्भगवताऽऽचारः प्रणीत इत्यत आह--सब्बेसिमित्यादि । सर्वेषां तीर्थङ्कराणां तीर्थप्रवर्तनादावाचारार्थः प्रथमतयाऽभवद् भवति भविष्यति च ततः शेषाङ्गार्थ इति । गणधरा अप्यनयवानुपूर्व्या सूत्रतया ग्रथ्नन्तीति । इदानीं प्रथमत्वे हेतुमाह--आयारो इत्यादि ।"-आचाराङ्गवृत्ति पृ०६।
"प्रथममङ्गं स्थापनामधिकृत्य, रचनापेक्षया तु द्वादशमङ्गम्"--समवायाङ्गवृत्ति पृ० १०१।
२. “जावोग्गहपडिमाओ पढमा १, सत्तिक्कगा बिइअचूला २। भावण ३ विमुत्ती ४ आयारपकप्पा ५ तिन्नि इअ पंच॥ २९७ ॥" -आचाराङ्गनियुक्तिः पृ० ३२० ।
"आयारस्स णं भगवो सचूलियागस्स पंचासीई उद्देसणकाला पण्णता" (समवायाङ्गसूत्र)। वृत्ति:--"तत्र आचारस्य प्रथमाङ्गस्य नवाध्ययनात्मकप्रथमश्रुतस्कन्धस्य सचूलियागस्स त्ति, द्वितीये हि तस्य श्रुतस्कन्धे पञ्च चूलिकाः, तासु च पञ्चमी निशीथाख्येह न गृह्यते भिन्नप्रस्थानरूपत्वात् तस्याः, तदन्याश्चतस्रः, तासु च प्रथमद्वितीये सप्तसप्ताध्ययनात्मिके, तृतीयचतुर्थ्यावेककाध्ययनात्मिके, तदेवं सह चूलिकाभिर्वर्तत इति सचूलिकाकः, तस्य पञ्चाशीतिरुद्देशनकाला भवन्तीति।"-समवायाङ्गवृत्तिः पृ० ९२ । ___ "पुव्वाणुपुव्वीए इच्चेयं णिसीहचूलज्झयणं छव्वीसइम"--निशीथचूणिः भा० १ पृ० ४ ।
"प्रायारस्स णं भगवनो सचूलियायस्स पणवीसं अज्झयणा पण्णत्ता, तं जहा-सत्थपरिण्णा १ लोगविजयो २ सीसोसणी ३ सम्मत्तं ।। आवंति ५ धुय ६ विमोहो ७ उवहाणसुयं ८ महपरिण्णा ९॥ १॥ पिंडेसण १० सिज्जिरिया ११-१२ भासज्झयणा १३ य वत्थपाएसा १४-१५ । उग्गहपडिमा १६ सत्तिक्कसत्तया २३ भावण २४ विमुत्ती २५ ॥२॥ निसीहज्झयणं पणवीस (छव्वीस) इमं ।"-समवायाङ्गसूत्रम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org