SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ श्रीशङ्कश्वरपार्श्वनाथाय नमः । श्रीअजितनाथस्वामिने नमः । प्राचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपग्रेभ्यो नमः । प्राचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीपादपत्रेभ्यो नमः । सद्गुरुदेवमुनिराजश्रीभुवनविजयजीपादपत्रेभ्यो नमः । प्रस्तावना परमकृपालोः परमात्मनः सद्गुरुदेवानां च कृपया भद्रबाहुस्वामिविरचितनियुक्ति-शोलाचार्यविरचितवृत्तिसहितं श्री प्राचाराङ्गसूत्रं श्री सूत्रकृताङ्गसूत्रं चेति प्रागमशास्त्रद्वयं विदुषां पुरत उपन्यस्यते । ___केवलज्ञानप्रादुर्भावानन्तरं चतुर्विंशतितमजैनतीर्थकरेण श्रमणेन भगवता महावीरस्वामिना (श्रीवर्धमानस्वामिना) अपापापुर्यां महासेनवने प्रारब्धां धर्मदेशनामनुसत्य भगवच्छिष्यैः श्री इन्द्रभूतिगौतमादिभिर्गणधरैरर्धमागध्यां प्राकृतभाषायां द्वादश अङ्गसूत्राणि प्रणीतानि, तद्यथाप्राकृते नाम संस्कृते नाम प्राकृते नाम संस्कृते नाम १. प्रायारो प्राचारः ७. उवासगदसानो उपासकदशाः २. सूयगडो सूत्रंकृतम् ८. अंतगडदसामो अन्तकृद्दशाः . ३. ठाणं स्थानम् ६. अणुत्तरोववाइयदसाम्रो अनुत्तरौपपातिकदशाः ४. समवानो समवायः १०. पण्हावागरणाई प्रश्नव्याकरणम् ५. वियाहपण्णत्ती व्याख्याप्रज्ञप्तिः ११. विवागसुयं विपाकश्रुतम् ६. णायाधम्मकहानो' ज्ञातधर्मकथाः १२. दिद्विवानो दृष्टिवाद: इयं च द्वादशाङ्गी 'द्वादशाङ्गं गणिपिटकम्' इत्यपि शास्त्रेषु गीयते । श्रुतपुरुषस्य अङ्गस्थानीयत्वादमीषाम् आचार-सूत्रकृत १. नन्दीसूत्रानुसारेणेमानि नामानि ।। २. भगवईसुत्त (भगवतीसूत्र) नाम्नाप्यस्य प्रसिद्धिः ।। ३. दिगम्बरग्रन्थेषु जयधवला [पृ० ११४] दिषु 'णाहधम्मकहा' इत्यपि उल्लेखः । ४. तत्त्वार्थभाष्ये [१।२०] इदं नाम । अन्यत्र नन्दी [हारिभद्री] वृत्त्यादौ ज्ञाताधर्मकथाः इत्यपि उल्लेखः । तत्त्वार्थसूत्र [१।१२०]व्याख्यासर्वार्थसिद्धयादौ ज्ञातृधर्मकथा इत्यपि नाम ।। ५. 'पण्हवायरणं' इति जयधवलादौ [पृ० ११९] ।। ६. "विवागसुत्तं' इति जयधवलादौ [पृ० ११९] । ७. 'विपाकसूत्रम्' इति तत्त्वार्थभाष्यादौ ११२० ॥ ८. 'दृष्टिपातः' इति तत्त्वार्थभाष्ये ॥२०॥ इदं दृष्टिवादाख्यं द्वादशमङ्गसूत्रं चिराद् व्यवच्छिन्नम् । किन्तु यदा तदासीत् तदा महासमुद्रवदतिविशालमासीत् । अस्मिन् १ परिकर्म, २ सूत्राणि, ३ पूर्वगतम्, ४ चूलिका, ५ प्रथमानुयोग इति विभागा आसन्, तेषु पूर्वगते उत्पावपूर्वादीनि उत्तरोत्तरम् अतिमहान्ति चतुर्दश पूर्वाणि आसन् ॥ ९. नन्दीसूत्रादिषु ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy