SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ 103 नागो रसे च वारिचरः । कृपणपतङ्गो रूपे भुजगो गन्धे ननु विनष्टः ॥ १ ॥ पञ्चसु रक्ताः पञ्च विनष्टा यन्त्रागृहीतपरमार्थाः । एकः पञ्चसु रक्तः प्रयाति भस्मान्ततामबुधः ||२||" अथवा शब्दे पुष्पशालाद्भद्रा ननाश रूपे अर्जुनकतस्करः | गन्धे गन्धप्रियकुमारः रसे सौदासः स्पर्शे सत्यकिः सुकुमारिकापतिर्वा ललिताङ्गकः, परत्र च नारकादियातनास्थानभयमिति ॥ एवं शब्दादीनुभयदुःखस्वभावानवगम्य यः परित्यजेदसौ कं गुणमवाप्नुयादित्याह से आयवं नाणवं वेयवं धंमवं वंभवं पन्नाणेहिं परियाणइ लोयं, मुणीति वुच्चे, धम्मविऊ उज्जू, आवहसोए संगमभिजाणइ ( सू० १०७ ) यो हि महामोहनिद्रावृते लोके दुःखमहिताय जानानो लोकसमयदर्शी शस्त्रोपरतः सन् शब्दादीन् कामगुणान् दुःखैकहेतूनभिसमन्वागच्छति ज्ञपरिज्ञया प्रत्याख्यान परिज्ञया च प्रत्याचष्टे 'स' मुमुक्षुरात्मवान् - आत्मा ज्ञानादिकोऽस्यास्तीत्यात्मवान् शब्दादिपरित्यागेन ह्यात्माऽनेन रक्षितो भवति, अन्यथा नारकै केन्द्रियादिपाते सत्यात्मकार्याकरणात्कुतोऽस्यात्मेति पाठान्तरं वा 'से आयवी नाणवी' आत्मानं श्ववादिपतनरक्षणद्वारेण वेत्तीत्यात्मवित्, तथा ज्ञानंयथावस्थित पदार्थ परिच्छेदकं वेत्तीति ज्ञानवित्, तथा वेद्यते जीवादिस्वरूपम् अनेनेति वेदः - आचाराद्यागमः तं वेतीति देदवित्, तथा दुर्गतिप्रसृतजन्तुधरणस्वभावं स्वर्गापवर्गमार्ग धर्म वेत्तीति धर्म्मवित्, एवं ब्रह्म-अशेषमलकलङ्कविकलं योगिशर्म वेतीति ब्रह्मवित्, यदिवा अष्टादशधा ब्रह्मेति, एवम्भूतश्चासौ प्रकर्षेण ज्ञायते ज्ञेयं यैस्तानि प्रज्ञानानि-मत्याश्रीआचादीनि तैर्लोकं यथावस्थितं जन्तुलोकं तदाधारं वा क्षेत्रं जानाति परिच्छिनत्तीत्युक्तं भवति य एव शब्दादिविषयसङ्गस्य राङ्गवृत्तिः परिहर्त्ता स एव यथावस्थितलोकस्वरूपपरिच्छेदीति । यश्चानन्तरगुणोपेतः स किं वाच्य ? इत्यत आह- 'मुणी' त्यादि, यो ह्यात्मवान् ज्ञानवान् वेदवान् धर्म्मवान् ब्रह्मवान् प्रज्ञानैर्व्यस्तैः समस्तैर्वा लोकं जानाति स मुनिर्वाच्यो, मनुते * मन्यते वा जगतस्त्रिकालावस्थां मुनिरितिकृत्वा, किं च- 'धम्म' इत्यादि, धर्म्म- चेतनाचेतनद्रव्यस्वभावं श्रुतचारित्ररूपं ॥ १५४ ॥ ४ वा वेत्तीति धर्मवित्, 'ऋजु'रिति ऋजो:- ज्ञानदर्शनचारित्राख्यस्य मोक्षमार्गस्यानुष्ठानादकुटिलो यथावस्थितपदार्थ स्वरूपपरिच्छेदाद्वा ऋजुः सर्वोपाधिशुद्धोऽवक्र इतियावत् । तदेवं धर्म्मविदृजुर्मुनिः किम्भूतो भवतीत्याह - 'आवट्ट' इत्यादि, भावावत्त-जन्मजरामरणरोगशोकव्यस नोपनिपातात्मकः संसार इति उक्तं हि - " रागद्वेषवशाविद्धं, मिथ्यादर्शनदुस्तरम् । जन्मावर्त्ते जगत्क्षिप्तं, प्रमादाद्राम्यते भृशम् ॥ १ ॥” भावश्रोतोऽपि शब्दादिकामगुणविषयाभिलाषः, आवर्त्तश्च श्रोतश्चावर्त्तश्रोतसी तयो रागद्वेषाभ्यां सम्बन्धः - सङ्गस्तमभिजानाति - आभिमुख्येन परिच्छिनत्ति - यथाऽयं सङ्गः आवर्त्तश्रोतसोः कारणं, जानानश्च परमार्थतः कोऽभिधीयते ?, योऽनर्थ ज्ञात्वा परिहरति, ततश्चायमर्थः - संसारश्रोतःसङ्गं रागद्वेषात्मकं ज्ञात्वा यः परिहरति स एव आवर्त्तस्रोतसोः सङ्गस्याभिज्ञाता ॥ सुतजाप्रतां दोषगुणपरिच्छेदी कं |गुणमवानुयादित्याह - (शी०) सीउसिचाई से निग्गंथे अरइरइसहे, फरुसयं नो वेएइ, जागर वेरोवरए, वीरे एवं दुक्खा पमुक्खसि, जरामच्चुवसोवणिए नरे सययं मूढे धम्मं नाभिजाणइ (सू० १०८) सबाह्याभ्यन्तरग्रन्थरहितः सन् शीतोष्णत्यागी सुखदुःखानभिलाषुकः शीतोष्णरूपौ वा परीषहावतिसहमानः संयमासंयमरत्यरतिसहः सन् परुषतां - कर्कशतां पीडाकारितां परीषहाणामुपसर्गाणां वा कर्मक्षपणायोद्यतः साहाय्यं मन्यमानो 'नो वेत्ति' न तान् पीडाकारित्वेन गृह्णातीत्युक्तं भवति, यदिवा संयमस्य तपसो वा परुषतां शरीरपीडोत्पादनात् कर्म्मले पापनयनाद्वा संसारोद्विग्नमना मुमुक्षुर्निराबाधसुखोन्मुखो 'न वेत्ति' न संयमतपसी पीडाकारित्वेन गृह्णातीतियावत् । किं च- 'जागर' इत्यादि, असंयमनिद्रापगमाज्जागतति जागरः, (अभिमानसमुत्थोऽमर्षावेशः परापकाराध्यवसायो वैरं तस्मादुपरतो वैरोपरतो, / जागरश्वासौ वैरोपरतश्चेति विगृह्य कर्म्मधारयः, क एवम्भूतो ? - 'वीरः' कर्म्मापन - यनशक्त्युपेतः, एवम्भूतश्च त्वं वीर ! आत्मानं परं वा दुःखाद्दुःखकारणाद्वा कर्म्मणः प्रमोक्ष्यसीति । यश्च यथोक्ताद्विपरीतः आवर्त्तश्रोतसोः सङ्गमुपगतोऽजागरः स किमाप्नुयादित्याह-जरा च मृत्युश्च ताभ्यामात्मवशमुपनीतो 'नरः' प्राणी 'सततम्' अनवरतं 'मूढो' महामोहमोहितमतिर्द्धम्म - स्वर्गापवर्गमार्ग नाभिजानीते- नावगच्छति, तत् संसारे स्थानमेव नास्ति यत्र जरामृत्यू न स्तः, देवानां जराऽभाव इति चेत्, न तत्राप्युपान्त्यकाले लेश्याबलसुखप्रभुत्ववर्णहान्युपपत्तेरस्त्येव च तेषामपि जरासद्भावः, उक्तं च – “देवा णं भंते! सब्वे समवण्णा?, नो इणट्ठे समहे, सेकेण ट्ठेणं भंते! एवं १ देवा भदन्त ! सर्वे समवर्णाः ?, नैषोऽर्थः समर्थः, तत् केनार्थेन भदन्त । एवमुच्यते ?, गौतम ! देवा द्विविधाः - पूर्वोत्पन्नकाश्च पश्चादुपपन्नकाश्च । तत्र ये ते पूर्वोत्पन्न कास्तेऽविशुद्धवर्णाः, ये पश्चादुत्पन्नास्ते विशुद्धवर्णाः. Jain Education International For Private Personal Use Only शीतो० ३ उद्देशक २ मनादि मन-मन हायानी सभ्यता धवाधी ॥ १५४ ॥ www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy