SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ 91 वितेऽपि न प्रमादवता भाव्यमिति, आह च-'जीवियं' इत्यादि, जीवितम्-आयुष्कं तत् क्षीणं सत् 'दुष्पतिव्रहणीय || दुरभावार्थे, नैव वृद्धिं नीयते इतियावत् , अथवा जीवितं-संयमजीवितं तहुष्प्रतिबृहणीयं, कामानुषक्तजनान्तर्वतिना दुःखेन वृद्धि नीयते, दुःखेन निष्प्रत्यूहः संयमः प्रतिपाल्यते इति, उक्तं च-"आगासे गंगसोउव्व, पडिसोउव्व दुत्तरो। बाहाहिं चेव गंभीरो, तरिअन्वो महोअही ॥१॥ वालुगाकवलो चेव, निरासाए हु संजमो । जवा लोहमया चेव, चावेयव्वा सुदुक्करं ॥२॥" इत्यादि, येन चाभिप्रायेण कामा दुरतिक्रमा इति प्रागभ्यधायि तमभिप्रायमाविष्कुर्वन्नाह'कामकामी' इत्यादि, कामान् कामयितुम्-अभिलषितुं शीलमस्येति कामकामी 'खलु' वाक्यालङ्कारे 'अयम्' इत्यध्यक्ष: ['पुरुषः' जन्तुः । यस्त्वेवंविधोऽविरतचेताः कामकामी स नानाविधान् शारीरमानसान दुःखविशेषाननुभवतीति दर्श यति-'से सोयईत्यादि, 'स' इति कामकामी ईप्सितस्यार्थस्याप्राप्तौ तद्वियोगे च स्मृत्यनुषङ्गः शोकस्तमनुभवति त अथवा शोचत इति काममहाज्वरगृहीतः सन् प्रलपतीति, उक्तं च-“गते प्रेमावन्धे प्रणयबहुमाने च गलिते, निवृत्ते सद्भावे जन इव जने गच्छति पुरः। तमुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि! गतांस्तांश्च दिवसान , न जाने को हेतुर्दलति शतधा यन्न हृदयम् ॥१॥” इत्यादि शोचते, तथा 'जूरईत्ति हृदयेन खिद्यते, तद्यथा-"प्रथमतरमथेदं चिन्तनीयं तवासीबहुजनदयितेन प्रेम कृत्वा जनेन । हृतहृदय ! निराश कीब! संतप्यसे किं?, न हि जडगततोये सेतुबन्धाः क्रियन्ते ॥१॥" १ आकाशे गङ्गाश्रोत इच, प्रतिश्रोत इव दुस्तरः । बाहुभ्यामेव गम्भीरस्वरीतव्यो महोदधिः ॥१॥वाकाकवल इव, निराखाद एव संयमः । यवा लोहमया & एव, चयितव्याः सुम्करम् ॥ २॥ श्रीआचा- इत्येवमादि, तथा 'तिप्पइत्ति 'तिपृ ते प्रक्षरणार्थों तेपते-क्षरति सञ्चलति मर्यादातो भ्रश्यति निर्मर्यादो भवतीतियावत् , लोक.वि २ राङ्गवृत्तिः तथा शारीरमानसैदुःखैः पीज्यते, तथा परिः समन्ताद्वहिरन्तश्च तप्यते परितप्यते, पश्चात्तापं वा करोति, यथेष्टे पुत्रक(शी०) लत्रादौ कोपात् क्वचिद्गते स मया नानुवर्तित इति परितप्यते, सर्वाणि चैतानि शोचनादीनि विषयविषावष्टब्धान्तःकर णानां दुःखावस्थासंसूचकानि, अथवा शोचत इति यौवनधनमदमोहाभिभूतमानसो विरुद्धानि निषेव्य पुनर्वयःपरिणा॥१३६॥ मेन मृत्युकालोपस्थानेन वा मोहापगमे सति किं मया मन्दभाग्येन पूर्वमशेषशिष्टाचीर्णः सुगतिगमनैकहेतुर्दुर्गतिद्वारप-18 रिघो धर्मो नाचीर्णः ? इत्येवं शोचत इति, उक्तं च-"भवित्रीं भूतानां परिणतिमनालोच्य नियतां, पुरा यद्यत् किश्चिद्विहितमशुभं यौवनमदात् । पुनः प्रत्यासन्ने महति परलोकैकगमने, तदेवैकं पुंसां व्यथयति जराजीर्णवपुषाम् ॥१॥" तथा जूरतीत्यादीन्यपि स्वबुद्ध्या योजनीयानि, उक्तं च-"सगुणमपगुणं वा कुर्वता कार्यजातं, परिणतिरवधार्या तयत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ॥१॥” इत्यादि । कः पुनरेवं न शोचत इत्याह आययचक्खू लोगविपस्सी लोगस्स अहो भागं जाणइ उद्धं भागं जाणइ तिरियं भागं जाणइ, गड्डिए लोए अणुपरियमाणे, संधिं विइत्ता इह मच्चिएहि, एस वीरे पसंसिए जे बद्धे पडिमोयए जहा अंतो तहा बाहिं जहा बाहिं तहा अंतो, अंतो अंतो पूइ देहतराणि पासइ पुढोवि सवंताई पंडिए पडिलेहाए (सू० ९३) आयतं-दीर्घमैहिकामुष्मिकापायदर्शि चक्षुः-ज्ञानं यस्य स आयतचक्षुः, कः पुनरित्येवंभूतो भवति ? यः कामानेकान्तेनानर्थभूयिष्ठान् परित्यज्य शमसुखमनुभवति, किं च 'लोगविपस्सी' लोकं विषयानुषणावेशाप्तदुःखातिशयं तथा त्यक्तकामावाप्तप्रशमसुखं विविधं द्रष्टुं शीलमस्येति लोकविदर्शी, अथवा लोकस्य ऊर्ध्वाधस्तिर्यग्भागगतिकारणायुष्कसुखदुःखविशेषान् पश्यतीति, एतद्दर्शयति-'लोगस्स' इत्यादि, लोकस्य-धर्माधर्मास्तिकायावच्छिन्नाकाशखण्डस्याधोभागं जानातीति-स्वरूपतोऽवगच्छति, इदमुक्तं भवति-येन कर्मणा तत्रोपद्यन्तेऽसुमन्तः यादृक् तत्र सुखदुःखविपाको भवति तं जानाति, एवमूर्द्धतिर्यग्भागयोरपि वाच्यं, यदिवा लोकविदशीति-कामार्थमर्थोपार्जनप्रसक्तं गृद्धमध्युपपन्नं लोकं पश्यतीति । एतदेव दर्शयितुमाह-'गड्डिए' इत्यादि, अयं हि लोको 'गृद्धः' अध्युपपन्नः कामानुषङ्गे तदुपाये वा तत्रैवानुपरिवर्त्तमानो भूयो भूयस्तदेवाचरंस्तजनितेन वा कर्मणा संसारचक्रेऽनुपरिवर्त्तमानः-पर्य-|| टन्नायतचक्षुषो गोचरीभवन् कामाभिलापनिवर्तनाय न प्रभवति?, यदिवा कामगृद्धान् संसारेऽनुपरिवर्त्तमानानसुमतः पश्येत्येवमुपदेशः, अपि च-'संधि' इत्यादि, इह 'मत्येषु' मनुजेषु यो ज्ञानादिको भावसन्धिः, स च मत्र्येष्वेव सम्पूर्णो भवतीति मर्त्यग्रहणम्, अतस्तं विदित्वा यो विषयकषायादीन् परित्यजति स एव वीर इति दर्शयति-'एस' इत्यादि, 'एषः' अनन्तरोक्तः आयतचक्षुर्यथावस्थितलोकविभागस्वभावदर्शी भावसन्धेर्वेत्ता परित्यक्तविषयतर्षो वीरः कर्मविदारणात् 'प्रचसितः' स्तुतः विदिततत्त्वैरिति । स एवंभूतः किमपरं करोतीति चेदित्याह-'जे बद्धे' इत्यादि, यो ॥१३६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy