________________
4
श्रीआचा- भूतां मात्रामवगच्छेदिति भावः, एतच्च स्वमनीषिकया नोच्यत इत्यत आह-से जहेयं' इत्यादि, तद्यथा-इदमुद्देशका- लोक.वि.२ रावृत्तिः देरारभ्यानन्तरसूत्रं यावद्भगवता-ऐश्वर्यादिगुणसमन्वितेनार्धमागधया भाषया सर्वस्वभाषानुगतया सदेवमनुजायां परि
उद्देशका ५ (शी०) पदि केवलज्ञानचक्षुषाऽवलोक्य 'प्रवेदितं' प्रतिपादित, सुधर्मस्वामी जम्बूस्वामिने इदमाचष्टे । किं चान्यत्-'लाभो'त्ति
इत्यादि, लाभो वस्त्राहारादेर्मम संवृत्त इत्यतोऽहो! अहं लब्धिमानित्येवं मदं न विदध्यात्, न च तदभावे शोकाभि॥१३४॥
भूतो विमनस्को भूयादिति, आह च-'अलाभो'त्ति इत्यादि, अलाभे सति शोकं न कुर्यात् , कथं ?-धिग्मां मन्दभा
ग्योऽहं येन सर्वदानोद्यतादपि दातुर्न लभेऽहमिति, अपि तु तयोर्लाभालाभयोर्माध्यस्थ्यं भावनीयमिति, उक्तं च-"ललभ्यते लभ्यते साधु, साधुरेव न लभ्यते । अलब्धे तपसो वृद्धिलब्धे तु प्राणधारणम् ॥ १ ॥" इत्यादि, तदेवं पिण्ड
पात्रवस्त्राणामेषणाः प्रतिपादिताः, साम्प्रतं सन्निधिप्रतिषेधं कुर्वन्नाह-'बहुपी'त्यादि, 'बहुंपि' बह्वपि लब्ध्वा 'न निहे'त्ति न स्थापयेत्-न सन्निधिं कुर्यात्, स्तोकं तावन्न सन्निधीयत एव, बह्वपि न सन्निदध्यादित्यपिशब्दार्थः, न केवलमाहारसन्निधिं न कुर्याद् , अपरमपि वस्त्रपात्रादिकं संयमोपकरणातिरिक्तं न बिभृयादिति, आह-'परि' इत्यादि, परिगृह्यत इति परिग्रहो-धर्मोपकरणातिरिक्तमुपकरणं तस्मादात्मानमपष्वष्केद्-अपसर्पयेद्, अथवा संयमोपकरणमपि मूर्छया। परिग्रहो भवति, 'मूर्छा परिग्रहः' (तत्त्वा० अ० ८ सू०) इतिवचनात्, तत आत्मानं परिग्रहादपसर्पयन्नुपकरणे तुरगवत् मूर्छा न कुर्यात्, ननु च यः कश्चिद्धर्मोपकरणाद्यपि परिग्रहो, न स चित्तकालुष्यमृते भवति, तथाहि-आ
H॥१३४॥ त्मीयोपकारिणि राग उपघातकारिणि च द्वेषः, ततः परिग्रहे सति रागद्वेषौ नेदिष्ठौ, ताभ्यां च कर्मबन्धः, ततः कथं न परिग्रहो धर्मोपकरणम् ?, उक्तं च-"ममाहमिति चैप यावदभिमानदाहज्वरः, कृतान्तमुखमेव तावदिति न प्रशान्त्युनयः । यशःसुखपिपासितैरयमसावनोंत्तरः, परैरपसदः कुतोऽपि कथमप्यपाकृष्यते ॥ १॥" नैष दोषः, न हि धर्मो|पकरणे ममेदमिति साधूनां परिग्रहाग्रहयोगोऽस्ति, तथा ह्यागमः-"अवि अप्पणोऽवि देहमि, नायरंति ममाइउं", यदिह परिगृहीतं कर्मबन्धायोपकल्पते स परिग्रहो, यत्तु पुनः कर्मनिर्जरणार्थ प्रभवति तत्परिग्रह एव न भवतीति । आह च____ अन्नहा णं पासए परिहरिजा, एस मग्गे आयरिएहिं पवेइए, जहित्थ कुसले नोव
लिंपिज्जासि त्तिवेमि (सू० ९१) णमिति वाक्यालङ्कारे, 'अन्यथे'त्यन्येन प्रकारेण पश्यकः सन् परिग्रहं परिहरेत् , यथा हि अविदितपरमार्था गृहस्थाः सुखसाधनाय परिग्रहं पश्यन्ति न तथा साधुः, तथाहि अयमस्याशयः-आचार्यसत्कमिदमुपकरणं न ममेति, रागद्वेष-18 मूलत्वात् परिग्रहाग्रहयोगोऽत्र निषेध्यो, न धर्मोपकरणं, तेन विना संसारार्णवपारागमनादिति, उक्तं च-“साध्यं यथा कथञ्चित् स्वल्पं कार्य महच्च न तथेति । प्लवनमृते न हि शक्यं पारं गन्तुं समुद्रस्य ॥१॥" अत्र चाहताभासैक्रेटिकैः सह महान्विवादोऽस्तीत्यतो विवक्षितमर्थ तीर्थकराभिप्रायेणापि सिसाधयिषुराह-'एस मग्गे' इत्यादि, धर्मोपकरणं न परिग्रहायेत्येषः-अनन्तरोक्तो मार्गः आराद्याताः सर्वहेयधर्मेभ्य इत्यार्याः-तीर्थकृतस्तैः 'प्रवेदितः' कथितो, न तु यथा बोटिकैः कुण्डिका तट्टिका लम्बणिका अश्ववालधिवालादि स्वरुचिविरचितो मार्ग इति, न वा यथा मौद्गलिखातिपुत्राभ्यां
१ अप्यात्मनोऽपि देहे नाचरन्ति ममायितुम्. श्रीआचा- शौद्धोदनिं ध्वजीकृत्य प्रकाशितः, इत्यनया दिशा अन्येऽपि परिहार्या इति । इह तु स्वशास्त्रगौरवमुत्पादयितुमार्यैः लोक.वि.२ राङ्गवृत्तिः प्रवेदित इत्युक्तम् , अस्मिंश्चार्यप्रवेदिते मार्गे प्रयत्नवता भाव्यमिति, आह च-'जहेत्थ' इत्यादि, लब्ध्वा कर्मभूमि (शी०) मोक्षपादपवीजभूतां च बोधिं सर्वसंवरचारित्रं च प्राप्य तथा विधेयं यथा 'कुशलो' विदितवेद्यः 'अत्र' अस्मिन्नार्यप्रये
दिते मार्गे आत्मानं पापेन कर्मणा नोपलिम्पयेत् इति । एवं चोपलिम्पनं भवति यदि यथोक्तानुष्ठानविधायित्वं न भवति, सतां चायं पन्था यदुत-यत्स्वयं प्रतिज्ञातं तदन्त्योच्छासं यावद्विधेयमिति, उक्तं च-"लजां गुणौघजननी जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्तमानाः । तेजस्विनः सुखमसूनपि सन्त्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥ १॥” इतिशब्दोऽधिकारसमाप्त्यर्थो, 'ब्रवीमि' इति सोऽहं ब्रवीमि येन मया भगवत्पादारविन्दमुपासता
अश्रावीति ॥ परिग्रहादात्मानमपसर्पयेदित्युक्तं, तच्च न निदानोच्छेदमन्तरेण, निदानं च शब्दादिपञ्चगुणानुगामिनः 3 कामाः, तेषां चोच्छेदोऽसुकरो, यत आह
कामा दुरतिकमा, जीवियं दुप्पडिवूहगं, कामकामी खलु अयं पुरिसे, से सोयइ जूरइ
तिप्पइ परितप्पइ (सू० ९२) । कामा द्विविधाः-इच्छाकामा मदनकामाश्च, तत्रेच्छाकामा मोहनीयभेदहास्यरत्युद्भवाः, मदनकामा अपि मोहनी-IIM यभेदवेदोदयात् प्रादुष्ष्यन्ति, ततश्च द्विरूपाणामपि कामानां मोहनीयं कारणं, तत्सद्भावे च न कामोच्छेद इत्यतो ॥१५॥ |दुःखेनातिक्रमः-अतिलयनं विनाशो येषां ते तथा, ततश्चेदमुक्तं भवति-न तत्र प्रमादवता भाव्यं । न केवलमत्र जी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org