________________
63
4
%ACTORX
लोक.वि.२
श्रीआचा- राङ्गवृत्तिः (शी)
A
॥ ९४॥
CARRACKERASACAR+
परि रूपाविप्रख्या जपन्योत्कृष्टभेदा अनन्ता एव शून्या वर्गणा भवन्ति, जघन्योत्कृष्टविशेषः पूर्ववत् , तासां संसारेऽप्यभावात् शून्यवर्गणा इत्यभिधानम्, एतदुक्तं भवति-अध्रुववर्गणोपरि प्रदेशवृक्याऽमन्ता अपि न सम्भवन्तीति | प्रथमा शून्यवर्गणा, तदुपरि रूपादिवृद्ध्या जघन्योत्कृष्टभेदाः प्रत्येकशरीरवर्गणा भवन्ति, जघम्यातः क्षेत्रपल्योपमासडख्येयभागप्रदेशगुणोत्कृष्टा, तदुपरि रूपोत्तरादिवृख्या जघन्योत्कृष्टभेदा अनम्ता एव शून्यवर्गणा भवन्ति, जघन्यवगणात उस्कृष्टा त्वसम्ख्येयभागप्रदेशगुणा, तदसइख्येयभागोऽप्यसख्येयलोकात्मक इति द्वितीया शून्यवर्गणा, तदुपरि रूपादिवृया बादरनिगोदशरीरवर्गणा जघन्यातः क्षेत्रपल्योपमास-ख्येयभागप्रदेशगुणोत्कृष्टा, तदुपरि रूपादिवृद्धया जघन्योत्कृष्टभेदा तृतीया शून्यवर्गणा, उत्कृष्टा जघन्यासोऽसख्येयगुणा, को गुणकार इति ?, उच्यते, अङ्गलापइन्स्येयभागप्रदेशराशेरावलिकाकालासस्येयभागसमवप्रमाणकृतपौनःपुन्यवर्गमूलस्यासङ्ख्येयभागप्रदेशप्रमाण इति, तदुपरि रूपोत्तरवृझ्या अघन्योत्कृष्टभेदा सूक्ष्मनिगोदशरीरवर्गणा, जघन्यात उत्कृष्टा आवलिकाकालासंख्येयभागसमयगुणा, तदुपरि रूपोत्सरवृख्या जघन्योत्कृष्टभेदा चतुर्थी शूम्यवर्गणा, जघन्यात उत्कृष्टा चतुरस्त्रीकृतलोकस्यासख्येयाः श्रेण्यः, ताश्च प्रतरासङ्ख्येथभागतुल्या इति, तदुपरि रूपादिवृख्या जघन्योत्कृष्टभेदा महास्कन्धवर्गणा, जपन्यात उत्कृष्टा क्षेत्रपस्योपमस्यासइख्येयगुणा संख्येयगुणा घेति । उक्काः समासतो वर्गणाः, विशेषार्थिना तु कर्मप्रकृतिरवलोकनीयेति । साम्प्रतं प्रयोगकर्म, वीर्यान्तरायक्षयोपशमाविर्भूतवीर्येणात्मना प्रकर्षेण युज्यत इति प्रयोगः, स च मनोवाकायलक्षणः पश्चदशधा, कथमिति ?, उच्यते, तत्र मनोयोगः सत्यासत्यमिश्रानुभयरूपश्चती, एवं वाग्योगोऽपि, काय-1 योगः सप्तधा-औदारिकौदारिकमिश्रवैक्रियवैक्रियमिश्राहारकाहारकमिश्रकार्मणयोगभेदात् , तत्र मनोयोगो मनःपर्याप्त्या पर्याप्तस्य मनुष्यादेः, वाग्योगोऽपि द्वीन्द्रियादीनाम् , औदारिकयोगस्तिर्यग्मनुजयोः शरीरपर्याप्तेरूई, तदारतस्तु मिश्रा केवलिनो वा समुद्घातगतस्य द्वितीयषष्ठसप्तमसमयेषु, वैक्रियकाययोगो देवनारकबादरवायूनाम् , अन्यस्य वा वैक्रियलब्धिमतः, तन्मिश्रस्तु देवनारकयोरुत्पत्तिसमयेऽन्यस्य वा वैक्रियं निवर्तयतः, आहारककाययोगश्चतुर्दशपूर्वविद आहा-1 रकशरीरस्थस्य, तन्मिनस्तु निर्वर्त्तनाकाले, कार्मणयोगो विग्रहगती केवलिसमुद्घाते वा तृतीयचतुर्थपञ्चमसमयेष्विति ।। तदनेन पञ्चदशविधेनापि योगेनात्माऽष्टौ प्रदेशान् विहायोत्तप्तभाजनोदकवदुद्वर्तमानैः सर्वैरेवात्मप्रदेशैरात्मप्रदेशावष्टब्धाकाशदेशस्थ कार्मणशरीरयोग्यं कर्मदलिकं यद् बनाति तत्प्रयोगकर्मेत्युच्यते, उक्तं च-"जाव णं एस जीवे एयइ वेयइ चलइ फंदईत्यादि ताव णं अडविहबंधए वा सत्तविहबंधए वा छविहबंधए वा एगविहबंधए वा नो णं अबंधए"। समुदानकर्म सम्पूर्वादान्पूर्वाच्च ददातेयुडन्तात् पृषोदरादिपाठेन आकारस्योकारादेशेन रूपं भवति, तत्र प्रयोगकर्मजैकरूपतया गृहीतानां कर्मवर्गणानां सम्यग्मूलोत्तरप्रकृतिस्थित्यनुभावप्रदेशबन्धभेदेनाइ-मर्यादया देशसर्वोपघातिरूपया तथा स्पृष्टनिधत्तनिकाचितावस्थया च स्वीकरणं समुदानं तदेव कर्म समुदानकर्म, तत्र मूलप्रकृतिबन्धो ज्ञानावरणीबादिः, उत्तरप्रकृतिबन्धस्तूच्यते-उत्तरप्रकृतिबन्धो ज्ञानावरणीयं पञ्चधा-मतिश्रुतावधिमनःपर्यायकेवलावरणभेदात् , तत्र केवलावारकं सर्वघाति शेषाणि तु देशसर्वघातीन्यपि, दर्शनावरणीयं नवधा-निद्रापञ्चकदर्शनचतुष्टयभेदात्, तत्र
१ यावदेष जीव एजते व्येजते चलति स्पन्दते, तावदष्टविधबन्धको वा सप्तविधवन्धको वा षड्विधबन्धको वा एकविधबन्धको बा, मैवाबन्धकः. निद्रापश्चर्क प्राप्तदर्शनलब्ध्युपयोगोपघातकारि, दर्शनचतुष्टयं तु दर्शनलब्धिप्राप्तेरेव, अत्रापि केवलदर्शनावरणं सर्वघाति शेषाणि तु देशतः, वेदनीयं द्विधा-सातासातभेदात् , मोहनीयं द्विधा-दर्शनचारित्रभेदात्, तत्र दर्शनमोहनीयं त्रिधा-1 मिथ्यात्वादिभेदात्, बन्धतस्त्वेकविध, चारित्रमोहनीयं षोडशकषायनवनोकषायभेदापञ्चविंशतिविधम् , अत्रापि मिध्यात्वं सञ्जवलनघर्जा द्वादश कषायाश्च सर्वघातिन्यः, शेषास्तु देशघातिन्य इति, आयुष्कं चतुर्द्धा-नारकादिभेदात् , नाम द्विचत्वारिंशद्भेदं गत्यादिभेदात्, त्रिनवतिभेदं चोत्तरोत्तरप्रकृतिभेदात्, गतिश्चतुर्द्धा जातिरेकेन्द्रियादिभेदासश्वधा शरीराणि औदारिकादिभेदात्पश्चधा औदारिकवैक्रियाहारकभेदादङ्गोपाङ्गं त्रिधा निर्माणनाम सर्वजीवशरीरावयवनिष्पादकमेकधा बन्धननाम औदारिकादिकर्मवर्गणैकत्वापादकं पञ्चधा सङ्घातनामौदारिकादिकर्मवर्गणारचनाविशेपसंस्थापकं पञ्चधा संस्थाननाम समचतुरस्रादि षोढा संहनननाम वज्रऋषभनाराचादि षोडैव स्पर्शोऽष्टधा रसः पञ्चधा गन्धो द्विधा वर्णः पश्चधा आनुपूर्वी नारकादिश्चतुर्द्धा विहायोगतिः प्रशस्ताप्रशस्तभेदात् द्विधा अगुरुलघूपघातपराघातातपोद्योतोच्छासप्रत्येकसाधारणत्रसस्थावरशुभाशुभसुभगदुर्भगसुस्वरदुःस्वरसूक्ष्मबादरपर्याप्तकापर्याप्तकस्थिरास्थिरादेयानादेययश-कीर्तिअयशःकीर्तितीर्थकरनामानि प्रत्येकमेकविधानीति, गोत्रमुच्चनीचभेदात् द्विधा, अन्तरायं दानलाभभोगोपभोगवीर्यभेदात् पञ्चधेत्युक्तः प्रकृतिबन्धो, बन्धकारणानि तु गाथाभिरुच्यन्ते-"पंडिणीयमंतराइय उवधाए
॥ ९४॥
A
%
%
%
%*
CARKAR
-
--
१ सप्तधा-अनन्तानुबन्धिमिथ्यात्वादिभेदात् बन्धतस्तु पञ्चधा प्र. २ द्वादश प्र.. एकविंशतिविधम् प्र. ४ प्रसनीकत्वेऽन्तराय उपधाते.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org