________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥ ७४ ॥
श्रीआचा
राङ्गवृत्तिः (शी०)
।। ७५ ।।
50
शस्त्र. परि१ * उद्देशकः ७
'आदेशो' व्यपदेशोऽसत्यपि रूप इति, अत्र चासच्छन्दो नाभाववचनः, किं त्वसद्रूपं वायोरिति चक्षुर्गाह्यं तद्रूपं न भवति, सूक्ष्मपरिणामात्, परमाणोरिव, रूपरसस्पर्शात्मकश्च वायुरिप्यते, न यथाऽन्येषां वायुः स्पर्शवानेवेति, प्रयोगार्थश्च गाथया प्रदर्शितः, प्रयोगश्चायं चेतनावान् वायुः, अपरप्रेरिततिर्यगनियमितगतिमत्त्वात्, गवाश्वादिवत् तिर्यगेव गमननियमाभावात् अनियमित विशेषणोपादानाच्च परमाणुनाऽनेकान्तिकासंभवः, तस्य नियमितगतिमत्त्वात्, जीवपुद्गलयोः + 'अनुश्रेणिगति ( तत्त्वा० अ० २ सू० २७) रिति वचनात् एवमेष वायुः - घनशुद्धवातादिभेदोऽशस्त्रोपहतश्चेतनावानवगन्तव्य इति ॥ परिमाणद्वारमाह
जे वायरपज्जत्ता पयरस्स असंखभागमित्ता ते । सेसा तिन्निवि रासी वीसुं लोगा असंखिज्जा ।। १६८ ।। ( दारं ) ये बादरपर्याप्तका वायवस्ते संवर्त्तितलोकप्रतरासङ्घयेयभागवर्त्तिप्रदेशराशिपरिमाणाः, शेपास्त्रयोऽपि राशयो विष्वक्| पृथगसङ्खः येयलोकाकाशप्रदेशपरिमाणा भवन्ति, विशेषश्चायमत्रावगन्तव्यः - वादराकाय पर्याप्तकेभ्यो वादरायुपर्याप्तका असङ्खयेयगुणाः वादापूकायापर्याप्तकेभ्यो बादरवायुकायापर्याप्तका असङ्घयेयगुणाः सूक्ष्मापूकायापर्याप्तकेभ्यः सूक्ष्मवाय्वपर्याप्तका विशेषाधिकाः सूक्ष्मापूकायपर्याप्तकेभ्यः सूक्ष्मवायुपर्याप्तका विशेषाधिकाः ॥ उपभोगद्वारमाह
विधमणाभिधारण उस्सिंचणफुसणआणुपाणू अ । बायरवाउक्काए उपभोगगुणा मणुस्साणं ।। १६९ ॥ व्यजनभस्त्राध्माताभिधारणोत्सिश्चन फूत्कारप्राणापानादिभिर्वादरवायुकायेन उपभोग एव गुण उपभोगगुणो मनुष्या[णामिति ॥ शस्त्रद्वाराभिधित्सयाऽऽह, तत्र शस्त्रं द्रव्यभावभेदाद्विविधं द्रव्यशस्त्राभिधित्सयाऽऽह
विअणे अ तलवंडे सुप्पसियपत्त चेलकण्णे य । अभिधारणा य वाहिं गंधग्गी वासत्थाई ॥ १७० ॥ व्यजनं तालवृन्तं सूर्पसितपत्रचेल कर्णादयः द्रव्यशस्त्रमिति, तत्र सितमिति चामरं, प्रस्विन्नो यद्बहिरवतिष्ठते वातागमनमार्गे साऽभिधारणा, तथा गन्धाः- चन्दनोशीरादीनां अग्निज्वाला प्रतापश्च तथा प्रतिपक्षवातश्च शीतोष्णादिकः, प्रतिपक्षवायुग्रहणेन स्वकायादिशस्त्रं सूचितमिति, एवं भावशस्त्रमपि दुष्प्रणिहितमनोवाक्कायलक्षणमवगन्तव्यमिति ॥ अधुना सकलनियुक्त्यर्थोपस जिहीर्षुराह -
सेसाई दारारं ताई जाई हवंति पुढवीए । एवं वाउछेसे निज्जुन्ती कित्तिया एसा ॥ १७१ ॥ 'शेषाणि' उक्तव्यतिरिक्तानि तान्येव द्वाराणि पृथिवीसमधिगमे यान्यभिहितानीति, एवं सकलद्वार कलापव्यावर्णनाद् वायुकायोदेशके निर्युक्तिः कीर्त्तितैपाऽवगन्तव्येति ॥ गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम्- 'पहू एजस्स दुर्गुछणाए 'त्ति, अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशके पर्यन्तसूत्रे त्रसकायपरिज्ञानं तदारम्भवर्जनं च मुनित्वकारणमभिहितम्, इहापि तदेव द्वयं वायुकायविषयं मुनित्वकारणमेवोच्यते, तथा परपरसूत्रसम्बन्धः 'इहमेगेसिं णो णायं भवइत्ति, किं तत् ज्ञातं भवति ?, 'पहु एजस्स दुगुंछणाए 'त्ति, तथा आदि सूत्रसम्बन्धञ्च 'सुयं मे आउसंतेण' मित्यादि, किं तत् श्रुतं १ यत्प्रागुपदिष्टं तथैतच्च
पहू एजस्स दुर्गुछणाए ( सू० ५५ )
'दुगुञ्छ 'त्ति जुगुप्सा प्रभवतीति प्रभुः समर्थः योग्यो वा, कस्य वस्तुनः समर्थ इति ?, 'एजू कम्पने' एजतीत्येजोवायुः कम्पनशीलत्वात् तस्यैजस्य जुगुप्सा - निन्दा तदासेवनपरिहारो निवृत्तिरितियावत् तस्या- तद्विषये प्रभुर्भवति, वायुकायसमारम्भनिवृत्तौ शक्तो भवतीतियावत् पाठान्तरं वा 'पहू य एगस्स दुर्गुछणाए' उद्रेकावस्थावर्त्तिनैकेन गुणेन स्पर्शाख्येनोपलक्षित इत्येको - वायुस्तस्यैकस्य एकगुणोपलक्षितस्य वायोर्जुगुप्सायां प्रभुः चशब्दात् श्रद्धाने च प्रभुर्भवतीति, अर्थात् यदि श्रद्धाय जीवतया जुगुप्सते ततः ॥ योऽसौ वायुकायसमारम्भनिवृत्तौ प्रभुरुक्तस्तं दर्शयतिआयंकसी अहिंयंति णच्चा, जे अज्झत्थं जाणइ से बहिया जाणइ, जे बहिया जा
इसे अज्झत्थं जाणइ, एयं तुलमन्नेसिं ( सू० ५६ )
'तकि कृच्छ्रजीवन' इत्यातङ्कनमातङ्कः - कृच्छ्रजीवनं दुःखं, तच्च द्विविधं - शारीरं मानसं च तत्राद्यं कण्टकक्षारशस्त्रगण्डलूतादिसमुत्थं, मानसं प्रियविप्रयोगाप्रियसम्प्रयोगेप्सितालाभदारिद्र्य दौर्मनस्यादिकृतम्, एतदुभयमातङ्कः, एनमातङ्कं पश्यति तच्छीलश्चेत्यातङ्कदर्शी, अवश्यमेतदुभयमपि दुःखमापतति मय्यनिवृत्तवायुकायसमारम्भे, ततश्चैतद्वायुकायसमारम्भणमातङ्कहेतुभूतमहितमिति ज्ञात्वैतस्मान्निवर्त्तने प्रभुर्भवतीति । यदिवाऽऽतङ्को द्वेधा- द्रव्यभावभेदात्, तत्र द्रव्यातङ्के इदमुदाहरणम् - जंबुद्दीवे दीवे भरहे वासंमि अत्थि सुपसिद्धं । बहुणयरगुणसमिद्धं रायगिहं णाम णयरंति ॥ १ ॥ तत्थासि गरुयदरियारिमद्दणो भुयणनिग्गयपयावो । अभिगयजीवाजीवो राया णामेण जियसत्तू ॥ २ ॥ अण१० मापतितमय्यनिवृत्त० प्र. अत्रायीति सम्बोधनेऽन्यस्याश्वर्ये वा. २ जम्बूद्वीपे द्वीपे भरते वर्षेऽस्ति सुप्रसिद्धम् । बहुनगरगुणसमृद्धं राजगृहं नाम नगरमिति ॥ १ ॥ तत्रासीत् गुरुदतारिमर्दनो भुवननिर्गत प्रतापः । अभिगतजीवाजीवो राजा नाम्रा जितशत्रुः ॥ २ ॥
Jain Education International
For Private Personal Use Only
11 68 11
शस्त्र. परि १
उद्देशकः ७
।। ७५ ।।
www.jainelibrary.org