SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ r m.muAMEmain iande पमक्षतमव्यङ्गं व्यापाद्य तच्छरीरेण विद्यामन्त्रसाधनानि कुर्वन्ति उपयाचितं वा यच्छन्ति दुर्गादीनामग्रतः, अधला विषं येन भक्षितं स हस्तिनं मारयित्वा तच्छरीरे प्रक्षिप्यते पश्चाद्विषं जीयेति, तथा अजिनार्थ-चित्रकव्यापार व्यापादयन्ति, एवं मांसशोणितहृदयपित्तवसापिच्छपुच्छवालशृङ्गाविषाणदन्तदंष्ट्रानखस्नाय्वस्थ्यस्थिमिजादिष्वपि मारमा मांसाथै सूकरादयः, त्रिशूलालेखार्थ शोणितं गृह्णन्ति, हृदयानि साधका गृहीत्वा मश्नन्ति. पित्तार्थ मयूरादयः, वसा व्याघमकरवराहादयः, पिच्छार्थ मयूरगृध्रादयः, पुच्छार्थ रोझादयः, वालाई चमर्यादयः, शृङ्गार्थ रुसमा हादराः, तत्किल शृङ्गं पवित्रमिति याज्ञिका गृहणन्ति, विषाणार्थ हस्त्यादयः, दन्तार्थ शृगालादयः: तिमिरापहत्वात्तदन्तानां दंष्ट्रार्थ वराहादयः, नखार्थ व्याघ्रादयः, स्नाय्वर्थ गोमहिष्यादयः, अस्थ्यर्थ शजशुक्त्यादयः, अस्थिमिजाथै महिपवराहादयः, एवमेके यथोपदिष्टप्रयोजनकलापापेक्षया नन्ति, अपरे तु कृकलासगृहकोकिलादीन् विना प्रयोजनेन व्यापादयन्ति, अन्ये पुनः 'हिंसिसु मेत्ति' हिंसितवानेषोऽस्मतस्वजनान्सिहः सोऽरिर्वाऽतो नन्ति, मम वा पीडां कृतवन्त इत्यतो हन्ति, तथा अन्ये वर्तमानकाल एव हिनस्ति अस्मान् सिंहोऽन्यो वेति नन्ति, तथाऽन्येऽस्मानयं हिंसिष्यतीत्यना-1 गतमेव सपोदिकं व्यापादयन्ति । एवमनेकप्रयोजनोपन्यासेन हननं त्रसविषयं प्रदश्ये उद्देशकाथेमुपसञ्जिहीराह एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिणाया भवंति, एत्थ सत्थं असमा रभमाणस्स इच्चेते आरंभा परिणाया भवन्ति, तं परिणाय मेहावी व सयं तसआ. स. १३ | १ विषाणार्थ गालादयः, दन्तार्थ हस्त्यादयः इति प्र०, परं 'विषाणं तु गे कोलेभदन्तयोः' इत्यनेकार्थवचनामायमसुन्दरः. श्रीआचाकायसत्थं समारंभेजा जेवण्णेहिं तसकायसत्थं समारंभावेज्जा णणे तसकायसत्थं परि१ राङ्गवृत्तिः समारंभंते समणुजाणेजा, जस्सेते तसकायसमारंभा परिणाया भवंति से ह मुणी उद्देशक (शी.) परिणायकम्मे (सू० ५४) तिबेमि ॥ इति षष्ठ उद्देशकः ॥ प्राग्वद्वाच्यं, यावत्स एव मुनिस्त्रसकायसमारम्भविरतत्वात् परिज्ञातकर्मत्वात्प्रत्याख्यातपापकरमत्वादिति बीमिका भगवतः त्रिलोकबन्धोः परमकेवलालोकसाक्षात्कृतसकलभुवनप्रपञ्चस्योपदेशादिति षष्ठोदेशकः समाप्तः ॥ उक्तः षष्ठोद्देशकः, साम्प्रतं सप्तमः समारभ्यते, अस्य चायमभिसम्बन्धः-अभिनवधर्माणां दुःश्रद्धानवादपरिभागत्वादुत्क्रमायातस्योक्तशेषस्य वायोः स्वरूपनिरूपणार्थमिदमुपक्रम्यते-तदनेन सम्बन्धेनायातस्यास्योद्देशकन्योपक्रमादीनि । चत्वार्यनुयोगद्वाराणि वाच्यानि यावन्नामनिष्पन्ने निक्षेपे वायूद्देशक इति, तत्र वायोः स्वरूपनिरूपणाय कतिचिद्दारसतिदेशगी नियुक्तिकृद्गाथामाह बाउस्सऽवि दाराइं ताई जाई हवंति पुढवीए । नाणत्ती उ विहाणे परिमाणुवमोगसत्येय।।१६४॥ । वातीति वायुस्तस्य वायोरपि तान्येव द्वाराणि यानि पृथिव्यां प्रतिपादितानि, नानात्वं-भेदः, तच्च विधानपरिमागोष-1 सभोगशस्त्रेषु, चशब्दालक्षणे च द्रष्टव्यमिति ॥ तत्र विधानप्रतिपादनायाह १ वनावनीर्य प्र. दुविहा उ वाउजावा सुहमा तह बायरा उ लोगंमि । सुहमा य सव्वलोए पंचेव य बायरविहाणा ॥१३५।।। वायुरेव जीवा वायुजीवाः, ते च द्विविधाः-सूक्ष्मवादरनामकर्मोदयात् सूक्ष्मा बादराश्च, तत्र सूक्ष्माः सकललोकच्यापितया अवतिष्ठन्ते, दत्तकपाटसकलवातायनमारगेहान्त मवत् व्याप्त्या स्थिताः, बादरभेदास्तु पञ्चवानन्तरगाथया क-1 क्ष्यमाणा इति ॥ बादरभेदप्रतिपादनायाह उक्कलिया मंडलिया गुंजा घणवाय सुद्धवाया य । बायरवारविहाणा पंचविहा वणिया एए॥ १६६ ॥ स्थित्वा स्थित्योत्कलिकाभिर्यो वाति स उत्कलिकावातः, मण्डलिकावातस्तु वातोलीरूपः, गुञ्जा-भम्भा तद्वत् गुञ्जन् यो वाति स गुावातः, घनवातोऽत्यन्तघनः पृथिव्याधाधारतया व्यवस्थितो हिमपटलकल्पो, मन्दस्तिमितः शीतकालादिषु शुद्धवातः, ये त्वन्ये प्रज्ञापनादौ प्राच्यादिवाता अभिहितास्तेषामेष्वेव यथायोगमन्तर्भावो द्रष्टव्य इति, एवमित्येते बादरवायुविधानानि-भेदाः पञ्चविधाः' पञ्चप्रकारा व्यावर्णिता इति ॥ लक्षणद्वाराभिधित्सयाऽऽह जह देवस्स सरीरं अंतद्वाणं व अंजणाईसुं। एओवम आएसो वाएऽसंतेवि रूवंमि ॥ १६७॥ __ यथा देवस्य शरीरं चक्षुषाऽनुपलभ्यमानमपि विद्यते चेतनावच्चाध्यवसीयते, देवाः स्वशक्तिप्रभावात्तथाभूतं रूपं कुर्च- न्ति यच्चक्षुषा नोपलभ्यते, न चैतद्वक्तुं शक्यते-नास्त्यचेतनं चेति, तद्वद्वायुरपि चक्षुषो विषयो न भवति, अस्ति च चित्तवांश्चेति, यथा वाऽन्तर्वानमञ्जनविद्यामन्त्रैर्भवति मनुष्याणां, न च नास्तित्वमचेतनत्वं चेति, एतदुपमानो वायावपि भवति १ एतदुपमानेन प्र जात्यावर्णिता जास्तेषामेव हिमपटल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy