________________
41
अध्ययनं १ उद्देशकः ५
आउन कट्ठकम्मे गंधंगे वत्थ मल्ल जोए य । झावणवियावणेसु अ तिल्लविहाणे अ उज्जोए ॥१४७॥ आतोद्यानि-पटहभेरीवंशवीणाझल्लादीनि, काष्ठकर्म-प्रतिमास्तम्भद्वारशाखादि, गन्धाङ्गानि-वालकप्रियङ्गपत्रकदमनकत्वक्कन्दनोशीरदेवदार्वादीनि, वस्त्राणि-वल्कलकार्पासमयादीनि, माल्ययोगा-नवमालिकाबकुलचम्पकपुन्नागाशोकमालतीविचकिलादयः, ध्मापनं-दाहो भस्मसात्करणमिन्धनैः, वितापन-शीताभ्यर्दितस्य शीतापनयनाय काष्ठप्रज्वालनात्, तैलविधानं-तिलातसीसर्षपेङ्गदीज्योतिष्मतीकरनादिभिः, उद्योतो-वर्तितृणचूडाकाष्ठादिभिरिति ॥ एवमेतान्युपभोगस्थानानि प्रतिपाद्य तदुपसञ्जिहीर्घराह___ एएहिं कारणेहिं हिंसंति वणस्सई बह जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥ १४८ ॥ _ 'एतैः' गाथाद्वयोपात्तैः 'कारणः' प्रयोजनैः 'हिंसन्ति' व्यापादयन्ति प्रत्येकसाधारणवनस्पतिजीवान बहून् वनस्पतिसमारम्भिणः पुरुषाः, किंभूतास्त इति दर्शयति-'सात' सुखं तदन्वेषिणः 'परस्य' वनस्पत्यायेकेन्द्रियादेः 'दुःखं' बाधामुत्सादयन्ति ॥ साम्प्रतं शस्त्रमुच्यते-तच्च द्विधा-द्रव्यभावभेदात्, द्रव्यशस्त्रमपि समासविभागभेदात् द्विधैव, तत्र समासद्रव्यशस्त्राभिधित्सयाऽऽहकप्पणिकुहाणिअसियगदत्तियकुद्दालवासिपरसू अ । सत्थं वणस्सईए हत्था पाया मुहं अग्गी ॥ १४९ ॥
कल्प्यते-छिद्यते यया सा कल्पनी-शस्त्रविशेषः, कुठारी प्रसिद्धैव, असियगं--दात्रं, दात्रिका प्रसिद्धा, कुद्दालकवासू. पासिपरशवश्च, एते वनस्पतेः शस्त्रं, तथा हस्तपादमुखाग्नयश्च इत्येतत्सामान्यशस्त्रमिति ॥ विभागशस्त्राभिधित्सयाऽऽहश्रीआचा- किंची सकायसत्थं किंची परकाय तदुभयं किंचि । एयं तु बसस्थं भावे य असंजमो सत्थं ॥१५०॥ । राङ्गवृत्तिः किञ्चित् स्वकायशस्त्र-लकुटादि किश्चिच्च परकायशस्त्रं-पाषाणाच्यादि तथोभयशस्व-दात्रदात्रिकाकुठारादि, एतद् द्रव्य(शी०) शस्त्रं, भावशस्त्रं पुनरसंयमः दुष्पणिहितमनोवाकायलक्षण इति । सकलनियुक्त्यर्थपरिसमाप्तिप्रचिकटयिषयाऽऽह॥ ६१॥
सेसाई दाराइं ताई जाई हवंति पुढवीए । एवं वणस्सईए निज्जुत्ती कित्तिया एसा ॥१५१॥ उक्तव्यतिरिक्तशेषाणि तान्येव द्वाराणि यानि पृथिव्यामभिहितानि ततस्तद्वाराभिधानादनस्पती नियुक्तिः 'कीर्तिता' व्यावर्णितेति ॥ साम्प्रतं सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीय, तच्चेदम्
तं णो करिस्सामि समुट्ठाए, मत्ता मइमं, अभयं विदित्ता, तं जे णो करए, एसोवरए,
एत्थोवरए, एस अणगारेनि पवुच्चई (सू० ३९) अस्य चानन्तरपरम्परादिसूत्रैः सम्बन्धः प्राग्वद्वाच्यः, उक्तं प्राक् 'सातान्वेषिणो हि वनस्पतिजन्तूनां दुःखमुदीर-| | यन्ति, ततश्च तन्मूलमेव दुःखगहने संसारसागरे भ्राम्यन्ति सत्त्वाः' इत्येवं विदितकटुकविपाकः समस्तवनस्पतिसत्त्व| विषयविमर्दनिवृत्तिमात्यन्तिकीमात्मनि दर्शयन्नाह-'तत्' वनस्पतीनां दुःखमहं दृष्टप्रत्यपायो न करिष्ये, यदिवा तद्दुःखोत्पत्तिनिमित्तभूतं वनस्पतावारम्भ-छेदनभेदनादिरूपं नो करिष्ये मनोवाकायैः, तथाऽपरैर्न कारयिष्ये, तथा कुर्वतश्चान्यानानुमंस्ये, किं कृत्वेति दर्शयति-सर्वज्ञोपदिष्टमार्गानुसृत्या सम्यक् प्रव्रज्योत्थानेनोत्थाय समुत्थाय, प्रव्रज्यां प्रतिपद्येत्यर्थः, तदेवं वर्जितसकलसावद्यारम्भकलापः संस्तद्वनस्पतिदुःखं तदारम्भं वा नो करिष्यामीति, अनेन च संयमक्रिया दर्शिता, न च क्रियात एव मोक्षावाप्तिः, किं तहिं !, ज्ञानक्रियाभ्यां, तदुक्तम्-"नाणं किरियारहियं किरियामेत्तं च दोऽवि एगन्ता। न समत्था दाउं जे जम्ममरणदुक्खदाहाई॥१॥" यत एवमतो विशिष्टमोक्षकारणभूत ज्ञानप्रतिपिपादयिषयाऽऽह-'मत्ता मइम' मत्वा-ज्ञात्वा अवबुध्य यथावत् जीवान् , मतिरस्यास्तीति मतिमान् , मतिमानेवोपदेशा) भवतीत्यतस्तद्वारेणैव शिष्यामन्त्रणं हे मतिमन् ! प्रव्रज्यां प्रतिपद्य जीवादिपदार्थाश्च ज्ञात्वा मोक्षमवामोतीति, सम्यग्ज्ञानपूर्विका हि क्रिया फलवतीति दर्शितं भवति । पुनरत्रैवाह-'अभयं विदित्ता' अविद्यमानं भयमस्मिन्सत्त्वानामित्यभयः-संयमः, स च सप्तदशविधानस्तं चाभयं-सर्वभूतपरिपालनात्मकं संसारसागरान्निर्वाहकं विदित्वा || वनस्पत्यारम्भान्निवृत्तिर्विधेयेति । एतदेव दर्शयितुमाह-'तं जे नो करए' इत्यादि, 'त' वनस्पत्यारम्भ 'यो' विदिततदारम्भकटुकविपाकः नो कुर्यात् , तस्य प्रतिविशिष्टेष्टफलावाप्तिर्नान्यस्यान्धमूया प्रवर्त्तमानस्य, अभिलषितविप्रकृष्ट स्थानप्राप्तिप्रवृत्तान्धक्रियाव्याघातवदिति मन्तव्यं, ज्ञानमपि क्रियाहीनं न मोक्षाय, गृहान्तर्दधमाननिनक्षुपङ्गचक्षुर्ज्ञानवदिति, एवं ज्ञात्वाऽभ्युपेत्य च तत्परिहारः कर्त्तव्य इति दर्शितं भवति । एवं यः सम्यग्ज्ञानपूर्विकां निवृत्ति करोति स एव समस्तारम्भनिवृत्त इति दर्शयति-'एसोवरए'त्ति एष एव सर्वस्मादारम्भादूनस्पतिविषयादुपरतो यो यथावत् ज्ञात्वाऽऽरम्भं न करोतीति, स पुनरेवंविधनिवृत्तिभाकिं शाक्यादिष्वपि सम्भवत्युतेहैव प्रवचन इति दर्शयति–'एत्थोव
१ज्ञानं क्रियारहितं क्रियामात्रं च द्वेभप्येकान्तात् । न समर्थे दातुं यानि जन्ममरणदुःखदाहकानि ॥१॥
4000+KACTSANCTICAAAA%
सस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org