________________
१, १, २. ]
संत-परूवणाणुयोगद्दारे सुत्तावयरणं
[१११
णिच्चो अणिच्चो अप्पेति वण्णेदि । तेरासियं णियदिवादं विष्णाणवादं सद्दवादं पहाणवाद दव्ववाद' पुरिसवादं च वण्णेदि । उत्तं च
इत्यादि रूपसे क्रियावादी, अक्रियावादी, अज्ञानवादी आरे विनयवादियोंके तीनला त्रेसठ मतोंका पूर्वपक्षरूपसे वर्णन करता है । इसमें त्रैराशिकवाद, नियतिवाद, विज्ञानवाद, शब्दवाद, प्रधानवाद, द्रव्यवाद, और पुरुषवादका भी वर्णन है । कहा भी है
१ तेरासिय ( त्रैराशिक : ) गोशालप्रवर्तिता आजीविकाः पाखण्डिनस्त्रैराशिका उच्यन्ते । कस्मादिति चेदुच्यते, इह ते सर्वं वस्तु व्यात्मकमिच्छन्ति । तद्यथा, जीवोऽजीवो जीवाजीवश्च, लोका अलोका लोकालोकाच, सदसत्सदसत् । नयचिन्तायामपि त्रिविधं नयमिच्छन्ति । तद्यथा, द्रव्यास्तिकं पर्यायास्तिकमुभयास्तिकं च । ततस्त्रिभी राशिभिश्रन्तीति तैराशिकाः । नं. सू. पृ. २३९.
२ णियतिवाद ( दैववादः ) जत्तु जदा जेण जहा जस्स य णियमेण होदि तत्तु तदा । तेण तहात हवे इदि वादो णियदिवादो दु ॥ गो. क. ८८२. ये तु नियतिवादिनस्ते ह्येवमाहुः, नियतिर्नाम तत्वान्तरमस्ति यद्वशादेते भावाः सर्वेऽपि नियतेनैव रूपेण प्रादुर्भावमश्नुवते, नान्यथा । तथाहि, यद्यदा यतो भवति तत्तदा तत एव नियतेनैव रूपेण भवदुपलभ्यते, अन्यथा कार्यभावव्यवस्था प्रतिनियतव्यवस्था च न भवेत् नियामकाभावात् । तत एवं कार्यनैयत्यतः प्रतीयमानामेनां नियति को नाम प्रमाणपथकुशलो बाधितुं क्षमते ? मा प्रापदन्यत्रापि प्रमाणपथव्याघातप्रसङ्गः । अभि. रा. को. ( नियइ ).
३ विष्णाणवाद ( विज्ञानाद्वैतवादः ) प्रतिभासमानस्याशेषस्य वस्तुनो ज्ञानस्वरूपान्तः प्रविष्टत्वप्रसिद्धेः संवेदनमेव पारमार्थिकं तत्वम् । तथाहि, यदवभासते तज्ज्ञानमेव यथा सुखादि, अवभासन्ते च भावा इति । x x x तथा यद्वेद्यते तद्धि ज्ञानादभिन्नम् यथा विज्ञानस्वरूपम्, वेद्यन्ते च नीलादय इत्यतोऽपि विज्ञानाद्वैतसिद्धिरिति । न्या. कु. च. पू. ११९. बाह्यार्थनिरपेक्षं ज्ञानाद्वैतमेव ये बौद्धविशेषा मन्वते ते विज्ञानवादिनः । तेषां राद्धान्तो विज्ञानवादः । अभि. रा. को. (विष्णाणवाद ).
४ सदवाद ( शब्दब्रह्मवादः ) सकलं योगजमयोगजं वा प्रत्यक्षं शब्दब्रह्मोल्लेख्येवावभासते बाह्याध्यात्मिकार्थेषूत्पद्यमानस्यास्य शब्दानुविद्धत्वेनैवोत्पत्तेः, तत्संस्पर्शवैकल्ये प्रत्ययानां प्रकाशमानताया दुर्घटत्वात् । वांद्र्पता हि शाश्वती प्रत्यवमर्शिनी च तदभावे तेषां नापरं रूपमवशिष्यते । न्या. कु. च. पू. १३९, १४०.
५ पहाणवाद [ प्रधानवादः ] सत्वरजस्तमसां साम्यावस्था प्रधानम् । प्रधानस्य वादः प्रधानवादः सांख्यवाद इत्यर्थः । सांख्यानां हि पुमर्थापेक्षप्रकृतिपरिणाम एव लोकः । अभि. रा. को. [ पहाणकड ].
६ दव्ववाद [ द्रव्यैकान्तवादी नित्यवादः ] यत्कापिलं दर्शनं सांख्यमतं एतद् द्रव्यास्ति कनयस्य वक्तव्यम् । तदुक्तम्, जं काविलं दरिसणं एयं दव्वट्ठियस्स वत्तव्वं । स. त. ३, ४८.
७ पुरिसवाद [ पौरुषवादः ] आलसड्डो णिरुच्छाहो फलं किंचि ण भुंजदे । थणक्खीरादिपाणं वा पउरुसेण विणा ण हि ॥ गो. क. ८९०. अथवा, पुरिसवाद पुरुषाद्वैतवादः - एक्को चैव महप्पा पुरिसो देवो य सव्ववावी य । सव्वंगनिगूढो विय सचेयणो निग्गुणो परमो || गो. क. ८८१. पुरुष एवैकः सकललोक स्थितिसर्गप्रलयहेतुः प्रलयेऽप्यलुप्तज्ञानातिशयशक्तिरिति । तथा चोक्तम्, ऊर्णनाभ इवांशूनां चन्द्रकान्त इवाम्भसाम् । प्ररोहाणामिव लक्षः स हेतुः सर्वजन्मिनाम् ॥ इति । तथा ' पुरुष एवेदं सर्वं यद् भूतं यच्च भाव्यम् ' इत्यादि मन्वानानां वादः पुरुषवादः । अभि. रा. को. [ पुरिसवाइ ].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org