________________
सम्यक्त्वस्य लिङ्गानि श्रद्धानानि च
६७
क्षान्तिरेव परं ब्रह्म सत्यं क्षान्तिः प्रकीर्तिता । क्षान्तिरेव परा मुक्तिः क्षान्तिः सर्वार्थसाधिका ॥ ५५ ॥ क्षान्तिरेव जगद्वन्द्या क्षान्तिरेव जगद्धिता । क्षान्तिरेव जगज्ज्येष्ठा क्षान्तिः कल्याणदायिका ॥ ५६ ॥ क्षान्तिरेव जगत्पूज्या क्षान्तिः परममङ्गलम् । क्षान्तिरेवौषधं चारु सर्वव्याधिनिबर्हणम् ॥ ५७ ॥ क्षान्तिरेवारिनिर्णाशं चतुरङ्गं महाबलम् । किं चात्र बहुनोक्तेन सर्व क्षान्तौ प्रतिष्ठितम् ॥ ५८ ॥ इति प्रथमं लिङ्गम् । 'संवेग 'त्ति 'संवेग : ' मोक्षाभिलाषः । उक्तं च
र- विबुहेसरसोक्खं दुक्खं विय भावओ उ मण्णंतो ।
संवेगओ ण मोक्खं मोत्तूणं किंचि पत्थेइ ॥ ५९ ॥ ( धर्म० गा० ८०९)
इति 'द्वितीयं लिङ्गम् । 'निव्वेय'त्ति 'निर्वेद : ' संसारोद्वेगः । उक्तं च
णारय- तिरिय-परा-मरभवेसु णिव्वेयओ वसइ दुक्खं ।
aarपरलो मग्गो ममत्तविसवेगरहिओ वि ॥ ६० ॥ ( धर्म० गा० ८१० ) कथम्भूतः सन् दुःखं वसति ? 'अकृतपरलोकमार्ग' अनासेवितसदनुष्ठान इत्यर्थः । ‘ममत्वविषवेगरहितोऽपि' प्रकृत्या निर्ममत्व एव विदिततत्त्वत्वाद् । इति तृतीयं लिङ्गम् । 'अणुकंप'त्ति, 'अनुकम्पा' दुःखितप्राणिदया । उक्तं च
दण पाणिणिवहं भीमे भवसागरम्मि दुक्खत्तं ।
अविसेसओऽणुकंपं दुहा वि सामत्थओ कुणइ ।। ६१ ।। ( धर्म० गा० ८११ ) ‘अविशेषतः' आत्मीयेतरविचाराभावेन । 'द्विधापि' द्रव्यतो भावतश्च द्रव्यतः प्राशुकपिण्डादिदानेन, भावतः सद्धर्मयोजनया । इति चतुर्थं लिङ्गम् ।
'अत्थित्तभावेणं'ति, 'अस्तित्वभावेन' जीवादिपदार्थविद्यमानतापरिणामेन । उक्तं च
Hors तमेव सचं णिस्संकं जं जिणेहिं पण्णत्तं ।
सुहपरिणाम सव्वं कंखाइविसोत्तियारहिओ ॥ ६२ ॥ ( धर्म० गा० ८१२ ) 'समं'ति सह । इति पञ्चमं लिङ्गम् । 'जिणिंद'त्ति, 'जिनेन्द्राः' तीर्थकृतः । ' सम्मत्तलिंगाणि'त्ति, 'सम्यक्त्वलिङ्गानि' सम्यग्दर्शन चिह्नानि । 'उदाहरंति' त्ति, 'उदाहरन्ति' कथयन्तीति वृत्तार्थः ॥ १० ॥ उक्तं मूलद्वारवृत्ते लिङ्गद्वारम् । साम्प्रतं श्रद्धानंद्वारप्रतिपादनाय वृत्तमाहजीवाइवत्थू परमत्थसंथवो, सुदिट्ठभावाण जईण सेवणा ।
दूरेण वावण्ण-कुदिट्टिवज्जणा, चउव्विहं सद्दहणं इमं भवे ॥ ११ ॥
'जीवा इवत्थू परमत्थसंथवो 'त्ति जीवनात् प्राणधारणाज्जीयाः पृथिव्यपू - तेजो - वायु-वनस्पति-द्वि-त्रि- चतुः-पश्चेन्द्रिया-ऽनिन्द्रियभेदाद् दशधा, ते आदिर्येषामजीव - पुण्य-पापा-ऽऽश्रव-संवर निर्जरा-बन्ध-मोक्षाणां तानि जीवादीनि तानि च तानि वस्तूनि = पदार्था जीवादिवस्तूनि । तेषां परमार्थेन = वस्तुवृत्त्या, संस्तवः = परिचयः, परमार्थ संस्तवः = तत्त्व परिज्ञानम् । तेन च सम्यक्त्वं श्रद्धीयते । यतः -
परमत्थेणं जीवाइवत्थुतत्तत्थवित्थरविहन्नू ।
जो तम्मि सदहेज जीवो नियमेण सम्मत्तं ॥ ६३ ॥
अतस्तच्छ्रद्धानं भण्यते । अत्र च कौतुकादिना मिथ्यादृष्टयोऽपि जीवादिवस्तुपरिचयं कुर्वन्ति तन्निराकरणार्थं परमार्थविशेषणोपादानम् । इत्याद्यं श्रद्धानं ।
1 A B प्रथमलि° । 2 A B द्वितीयलि° ।
Jain Education International
3 सप्तमवृत्ते । 40D 'नप्रति । 5 A B सेबणं ।
For Private & Personal Use Only
www.jainelibrary.org