________________
साधुमाहात्म्यम्
सुद्धचित्ता महासत्ता सारयं सलिलं जहा । गोसीसचंदणं चेव सीयला सुसुगंधिणो ॥ ९२ ॥
'शुद्धचित्ताः' निर्मलान्तः करणाः 'महासत्त्वाः' सत्त्वाधिकाः, 'शारदं' चित्रानक्षत्रतापविशोधितम्, सलिलं ‘यथा' इति यद्वत् कर्ममलरहितत्वाद् । 'गोशीर्षचन्दनं' प्रधानं श्रीखण्डम्, चकारोऽग्रे योज्यते, एवशब्दस्य इवार्थत्वात् तद्वच्छीतलाः कामाग्नितापाभावात् । 'सुसुगन्धयश्च' शीलसौगन्धयुक्तत्वादिति ॥ विरया पावठाणे, निरया संजमे तवे । निम्ममा निरहंकारा खंता दंता जिइंदिया ॥९३॥
'विरता: ' निवृत्ताः 'पापस्थानेभ्यः' पातकाश्रवेभ्यः । 'निरताः' आसक्ताः 'संयमे' पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डविरतिश्चेति संयमः सप्तदशभेदः ॥ ३२०॥ इत्येवंरूपे । 'तपसि '
tureraणोरिआ वित्तीसंखेवणं रसच्चाओ । कायकिलेसो संलीणया य बज्झो तवो होइ ॥ ३२९ ॥ पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गो विय अभितरओ तवो होइ ॥ ३२२ ॥
इत्येवंलक्षणे । ‘निर्ममाः’ ‘पुत्रो मे भ्राता मे स्वजनो मे गृहकलत्रवर्गों में' इत्येवं ममीकाररहिताः । 'निरहङ्काराः’ निर्गताहङ्कृतयः । ‘क्षान्ताः’ क्षमावन्तः । ‘दान्ताः' नोइन्द्रियदमेन । 'जितेन्द्रियाः' निगृहीतस्पर्शनादीन्द्रियाः । इति श्लोकचतुष्टयार्थः ॥ ९० - ९३ || विशेषतः साधुमाहात्म्यं ख्यापयन् श्लोकमाह
अहो ! घण्णो हु सो देसो पुरं राया गिही गिहं । जं तुट्ठि मण्णमाणा णं विहरंती सुसाहुणो ॥ ९४॥
'अहो' इत्यतिशये, 'धन्यः' पुण्यभाक्, स 'देश:' जनपदः, 'पुरं' नगरम्, 'राजा' नृपतिः, 'गृही' गृहस्थः, 'गृह' निशान्तम्, 'जं' ति विभक्तिव्यत्ययाद् यत्र, 'तुष्टि' हर्षम् ' मन्यमानानां (मानाः ) ' प्रतिपद्यमानानाम् (मानाः), [? णं इति वाक्यालङ्कारे], 'विरहन्ति' परिभ्रमन्ति, 'सुसाधवः' सद्यतय इति श्लोकार्थः ॥ ९४ ॥ एवंगुणयुक्तानां च साधूनां यो वसतिं प्रयच्छति तस्य फलं श्लोकेनाऽऽह
सेज्जं जो देइ साहूणं तरे संसारसायरं ।
सेज्जायरो अओ वृत्तो सिद्धो सव्वष्णुसासणे ॥९५॥
'शय्या' वसतिम्, यो 'ददाति' प्रयच्छति, 'साधुभ्यः' यतिभ्यः, 'तरे' त्ति तरति, 'संसारसागरं” भवसमुद्रम्, शय्यातरोऽतो व्युक्तः सिद्धः सर्वज्ञशासने- ' शय्यया तरति संसारसागरम्' इत्येवं 'सिद्ध:' व्युत्पत्या निष्पादितः, 'व्युक्तः' विशेषेणोक्तः 'जिनशासने' निशीथादौ । अथवा सिद्ध इव सिद्धो व्युक्तः, भूतवदुपचारात् प्रत्यासन्नसिद्धिगामीत्यभिप्राय इति श्लोकार्थः ॥ ९५||
भाविनि
विशिष्टपुण्यहेतुमेव वसतिदातुः श्लोकेन प्रतिपादयति---
Jain Education International
२२३
चिहंताणं जओ तत्थ वत्थाऽऽहार-तवाइणो | सम्मं केइ पवज्जंति, जिणदिक्खं पि के वि ॥ ९६||
IcD प्रधानश्री । 2 E ° ठाणेहिं । 3 AB जियंदिया ।
For Private & Personal Use Only
www.jainelibrary.org