________________
२२२
सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम्
धण्णा चउव्वीस जव- गोहुम सालि - वीहि सट्ठीया । atta - अणुया - कंगूराला - तिल- मुग्ग- मासा य ॥३१४॥ अयसि-हिरिमर्थ-पुडगा-निष्पाव - सिलिंद - रायमासा य ।
इक्खू - मसूर - तुवरी-कुलत्थ तह धाणय- कलाया ३१५ ।। (दश० नि० गा०२५२-२५३) एतानि लोकप्रसिद्धानि । नवरं 'अणुका' लक्ष्णकंगू, ' षष्टिका' शालिभेदः, कंगू='वृत्तकंगू', तद्भेदो रालकः, हिरिमन्थाः = कृष्णचनकाः, निष्पावा:= वल्लाः, राजमाषाः = वलकाः, शिलिंदा : = मकुष्टाः, धान्यकं = कुस्तुम्बरी, कलाया = वृत्तचनका इति ।
एतानि च त्यक्त्वा तथा 'मंडलं पुरं' ति, 'मण्डलं' राज्यम्, 'पुरै' नगरम् चकारः पूर्वस्माद् योज्यते ॥
"मोक्ari" इत्यादि, 'मोक्षमार्ग' शिवपथं सम्यग्ज्ञानादिरूपम्, 'समालीनाः' सम्= एकीभावेनाऽऽलीनाः–आश्रिताः । किं कृत्वा ? छित्त्वा ' मोहबन्धनं' मोहनीयनिगडसंयमनम् । 'एते' पूर्वोक्ताः, 'साधवः' यतयः, 'महाभागाः ' अचिन्त्यशक्तियुक्ताः, 'वन्दनीयाः' नमस्करणीयाः, 'सुराणामपि' त्रिदशानामपीति श्लोकद्वयार्थः ॥८८ - ८९ ॥ पुनरपि विशेषगुणद्योतनार्थं श्लोकंचतुष्कमाह
सागरो इव गंभीरा, मंद इव निच्चला ।
कुंजरो इव सोडीरा, महंदी इव निब्भया ||२०||
'सागर : ' समुद्रः, स इव - तद्वत्, 'गम्भीरा: ' अलब्धमध्याः । 'मन्दरः' मेरुस्तद्वद् 'निश्चलाः' परीषहोपसर्गवातोत्कलिकाऽप्रकम्पाः । ' कुञ्जरः' हस्ती तद्वच्छौर्यवन्तः कर्मशत्रुपराजयं प्रति । 'मृगेन्द्र' इव निर्भयाः' सिंह इव भयरहिताः परतीर्थिककुवादिगजगलगर्जितादिष्विति ॥
सोमाचंदो व्व लेसाए, सूरो व्व तवतेयसा ।
सव्वासाण विसहा, जहा लोए वसुंधरा ॥ ९९ ॥
‘सोमाचन्द्रवद्' राकाशशाङ्क इव 'लोश्यया' सौम्यदीप्त्या, समस्तजनानन्ददायकत्वेन परदर्शनतारकाधिक्येन च । ‘सूरवद्’ भानुरिव, 'तपस्तेजसा' तपः किरणजालेन, परतीर्थिकशशधरतारतारकानिकरप्रभाप्रच्छादकत्वात् । ‘सर्वस्पर्शानां’ निःशेषस्पर्शविषयाणाम्, 'विषहाः' अघिसहनशीलाः, 'यथा' यद्वद्, ‘लोके' त्रिभुवने, 'वसुन्धरा' पृथ्वी, जनकृतशुभा -ऽशुभचेष्टासमवृत्तित्वात् । उक्तं चवंदिज्जमाणा न समुक्कसंति, हीलिज्जमाणा न समुज्जलंति । दंतेण चित्तेण चरंति लोए, मुणी समुग्धाइयरागदोसा ||३१६ ॥ (आव० नि० गा० ८६६) सोवयंता वयणाभिघाया, कण्णं गया दुम्मणयं जणंति । धम्मो त्ति किच्चा परमग्गसूरे, जियंदिए जो सहई स पुज्जो ॥३१७॥ जो सहर हु गामकंटए, अक्कोस- पहार तज्जणाओ य । भयभेरवसद सप्पहासे, समसुहदुक्खस हे जे स भिक्खू ||३१८|| अक्कोस- हणण- मारण धम्मब्भंसाण बालसुलभाणं । लाभं मण्णइ धीरो जहुत्तराणं अभावम्मि ॥३१९॥ ति ।
3
1c D 'हिरिर्मिथितिपुडग- निष्फाव | 2 C D हिरिमिन्थाः कृ | 4AB वादिगल ।
Jain Education International
For Private & Personal Use Only
CD सिंहवद्भयं ।
www.jainelibrary.org