________________
९२
सटीके मूलशुद्धिप्रकरणे द्वितीयं स्थानकम्
कानि जिनायतनानि निदर्शनीकृत्य तानि विधापयेद् ? इत्यत आह
विमाणमाला-कुलपव्वएसुं, वक्खार- नंदीसर-मंदरेसुं ।
अट्ठावए सासय-ऽसासयाई, जिणालयाइं व महालयाई ॥ ३५ ॥
‘विमानमाला-कुलपर्वतेषु' विमानमाला :- वैमानिकदेवनिवासपङ्कयः कुलपर्वताः – हिमाचलादयः, विमानमालाश्च कुलपर्वताश्च विमानमाला - कुलपर्वतास्तेषु तथा । 'वक्षार - नन्दीश्वर - मन्दरेषु' वक्षाराः - विजयविभागकारिपर्वताः, नन्दीश्वरः=अष्टमद्वीपः मन्दरः = मेरुः, वक्षाराश्चेत्यादिद्वन्द्वस्तेषु तथा । अष्टापदे - अवध्याप्रत्यासन्नवर्तिनि वैताढ्यपादपर्वते यत्र भरतचक्रिविनिर्मितं चैत्यायतनमस्ति । उपलक्षणं चैतत् शत्रुञ्जयादीनाम् । कथम्भूतानि ? यानि शाश्वतानि = अकृत्रिमाणि विमानमालादिषु अशाश्वतानि कृत्रिमाणि अष्टापदादिषु, जिनालयानीव - जिनायतनानिवत् तादृग्विधानीति भावार्थः । पुनः किम्भूतानि : मैहालयानि = बृहत्प्रमाणानीति वृत्तार्थः ॥ ३५॥
केषु स्थानेषु तानि कारयेत् ? इत्यत आह
उत्तंगसिंगेसु महागिरीसु, पुरेसु गामा-ऽऽगर-पट्टणेसुं ।
पए पर सव्वमहीयलम्मि, गिही विहाणेण विहावज्जा ॥ ३६ ॥
‘उत्तुङ्गशृङ्गेषु॑’ उच्चकूटेषु ‘महागिरिषु' बृहत्पर्वतेषूञ्जयन्तादिषु । पुरेषु नगरेष्ववध्यादिषु । 'ग्रामाssगर - पत्तनेषु' ग्रसन्ति बुद्ध्यादीन् गुणानिति ग्रामाः - शालिग्रामादयः, आकराः - लवणाद्युत्पत्तिभूमयः शाकम्भर्यादयः, पत्तनानि - जल-स्थलमार्गयुक्तानि भृगुकच्छादीनि ग्रामाश्वाकराश्चेत्यादिविग्रहः तेषु । किं बहुना ? 'पदे पदे' स्थाने [ स्थाने ], 'सर्वमहीतले' निःशेष भूवलये, 'गृही' गृहस्थो यतः स एवात्राधिकारी, उक्तं च जिन भवनविधौ
अहिगारी उगित्थो सुहसयणो वित्तसंजुओ कुलजो । अक्खु धीलिओ इमं तह धम्मरागी य ॥ १४३ ॥ गुरुपूजाकरणैरई सुसाइगुणसंगओ चैव ।
नायाऽहिगमविहाणस्स धणियमाणापहाणो य ॥ १४४ ॥ ( पञ्चा० गा० ३०४,३५० )
अनधिकारिणा तु तं विधीयमानं जिनभवनमपि दोषाय भवति यतस्तत्रैवोक्तं हरिभद्रसूरिणा —
आराहणाऍ तीए पुण्णं, पावं विराहणाए य ।
एयं धम्मरहस्सं विष्णेयं बुद्धिमंतेहिं ॥ १४६ ॥ ( पश्चा० गा० ३०२, ३०३ ) कथं कारयेत् ? 'विधानेन' विधिना, यस्माद्विधिनैव विधीयमानं सर्वमप्यनुष्ठानं फलवद्भवति । उक्तं चविधिना विधीयमानं धर्मानुष्ठानमखिलमिह भवति । फलदं यस्मात् तस्माद् यत्नस्तत्रैव कर्तव्यः ॥ १४७ ॥
विधापयेत्=कारयेदिति वृत्तदशकार्थः [ २७-३६] ॥ ३६ ॥
1 CD कृतकानि । 7 A B वाधिकारी ।
Jain Education International
अहिगारिणा इमं खलु कारेयव्वं, विवज्जए दोसो । आणाभंगाउ चिय, धम्मो आणाइ पडिबद्धो ॥ १४५ ॥
2 D महालकानि । 3-4 E 1 5AB षु महा । 6 C D °ष्ववन्त्यादिषु । A B यमं । 9 A B ° रुई ।
For Private & Personal Use Only
www.jainelibrary.org