________________
३८८
सिरिसोमप्पहसूरि-विरइयं राज्ञोक्तं-भगवन् ! इदं न मे चित्त-चमत्कारमारचयति भूतचतुष्टयाऽतिरिक्तस्य परलोकयायिनो जीवस्याऽसत्त्वात् । तथाहि-जीवो नास्ति प्रत्यक्ष-गोचरातीतत्वात् आकाशकुसुमवत् । यच्चास्ति, न तत् प्रत्यक्षगोचरातीतं, यथा-भूतचतुष्टयम् |
गुरुणोक्तम्-भद्र ! किमयं जीवो भवतः प्रत्यक्षं गोचरातीत उत सर्वेषाम् । तत्र यदि भवत् प्रत्यक्षा-गोचरातीतत्वान्नास्ति तदा देशकाल-स्वभाव-विप्रकृष्टानां प्रभूत-भू-भू धरादीनामप्यभावप्रसंगस्तेषामपि भवत् प्रत्यक्षेणाग्रहणात् । अथ सर्व-जनप्रत्यक्षगोचरातीतत्वान्नास्ति इत्युच्यते तदसिद्धम् । सर्व-जनप्रत्यक्षाणां भवद् प्रत्यक्षत्वात् । अथ तान्यपि ते प्रत्यक्षाणि तदा तवैव सर्वज्ञजीवस्य प्रसंगः । किं चेदं चैतन्यं किं भूतानां स्वभाव उत कार्य ? न तावत् स्वभावस्तेषाम चेतनत्वात् । न च कार्यं भूतानुरूपाऽभावात् । अथ समुदितेभ्यो भूतेभ्यश्चैतन्य मुत्पद्यते यथा मद्याङ्गेभ्यो मदशक्तिस्तदप्ययुक्तम् । यतो यद्येषु प्रत्येकं नास्ति तत्र तेभ्यः समुदितेभ्योपि स्याद्यथासिकताकणेभ्यः तैलं मद्याङ्गेषु च प्रत्येकमपि मदशक्ति-सद्भावात् । सर्वानुभवसिद्धं चेदं चैतन्यं यस्य कस्य चित्स्वभावः । स भूत-चतुष्टय-व्यतिरिक्तः परलोकयायी जीवः ।।
रना भणियं-जइ परलोयं जाइ जीवो, अत्थि ता मे पिया पाणिवहप्पमुह-महापाव-निरओ नरए समुप्पल्लो तुम्ह मएणं, सो कहं ममं पावाओ न नियत्तेइ ? |
गुरुणा वुत्तं-जहा कोइ महावराहकारी गुत्तीए खित्तो न निय-बंधवे पिच्छिउं पि पावइ, किं पुण जंपिउं ? | एवं नारया वि कम्म-परतंता नरगाओ निग्गंतुं पि न लहंति ।
रना वुत्तं- जइ एवं ता मे जणणी जिण-धम्मपरा जीवदया-निरया सग्गं गया, सा कहं ममं न पडिबोहेइ ? |
गुरुणा वुत्तं - सग्गे निसग्ग-सुंदर-सुरंगणा-पेम्म-परवसा गरुय-रिद्धि-अक्खित्त-चित्ता असमत्त-प्पओयणा मणुयाण हीणकज्जा दग्गंधयाए य तिरियलोयस्स जिण-पंचकल्लाण-समोसरणाइ-वज्जं नेच्छंति अवयरणं सुरा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org