________________
सिरिसोमप्पहसूरि- विरइयं
पञ्चमः पुनरायुर्नामा सुर-नर- तिर्यग्- नारकायुप्क-प्रकारैः ' रूपै - रुद्रवधः कोण - चतुष्टये निक्षिपति प्राणिनः ५ । षष्ठो नाम-नामा, तत्र१ गति - २ जाति ३ शरीराङ्गो४पाङ्ग - ५ बन्धन- ६ संघात ७ संहनन-८ संस्थान - ९ वर्ण - १० गन्ध ११ रस - १२ स्पर्शा - १३ SSनुपूर्वी - १४ विहायोगति - लक्षणाश्चतुर्दशपिण्डप्रकृतयः, त्रस - स्थावर - बादर-सूक्ष्मपर्याप्ताऽपर्याप्त प्रत्येक साधारण- स्थिराऽस्थिर- शुभाशुभ-सुभगदुर्भग- सुस्वर - दुःस्वरादेयाऽनादेय - यशः कीर्त्य यशः कीर्ति - लक्षणा विंशतिः सेतराः प्रकृतयः, अगुरुलघूपघात- पराघाताऽऽतपोद्योतोच्छ्वासतीर्थकर - निर्माण - रूपा अष्टौ प्रत्येक प्रकृतयः सर्व्वा द्विचत्वारिंशत् । यदि वा सुर-नर- तिर्यग्- नारक - लक्षणाश्चतस्त्रो गतयः १ । एक-दित्रि- चतुःपञ्चेन्द्रियलक्षणाः पञ्चजातयः २ । औदारिक - वैक्रियाऽऽहारकतैजस- कार्मणानि पञ्चशरीराणि ३ । औदारिक- वैक्रियाहारक- रूपाणि त्रीण्यं गोपाङ्गानि ४ । शरीराख्यानि पञ्च-बन्धनानि ५ । पञ्चसंघातनानि च ६ । वजर्षभनाराच नाराचाऽर्द्धनाराच - कीलिकाछेदस्पृष्टानि षट् संहननानि ७ । समचतुरस्र - न्यग्रोधमण्डल - सादिवामन - कुब्ज - हुंडानि षट् संस्थानानि ८ । सित-पीत रक्त-नील - कृष्णाः पञ्च वर्णाः ९ । सुरभिरसुरभिश्च दौ गन्धौ १० 1 कटु- - तिक्तकषायाऽम्लमधुराः पञ्च रसाः ११ । शीतोष्ण - स्निग्ध - रूक्ष-गुरु-लघु-मृदु-कर्कशा अष्टौ स्पर्शाः १२ । चतस्रः सुर-नर- तिर्यग्- नारकानुपूर्व्यः १३ । शुभाशुभे दे विहायोगती १४ । इत्येवं पिण्डप्रकृतीनां पञ्चषष्ट्या भेदैः पूर्वोक्ताः अष्टाविंशत्या च त्रिनवतिः । यदि वा बन्धन- संघातनानां शरीरग्रहणेन ग्रहणात् दशके । वर्ण- गन्ध-रस-स्पर्शानां विंशति भेदानां भेदत्यागे नैकैकग्रहणात् षोडशके चापनीते त्रिनवतेः सप्तषष्टिः । यदि व बन्धनस्य पञ्चदशभेदत्वादधिक- दशवृद्ध्या त्रिनवतिस्त्र्यत्तरं शतं भवतीत्येवंरूपैरनेकसंख्यैरयं विडम्बनास्पदतया परिणामयति तनुमतः ६ । सप्तमो गोत्रनामा उच्च-नीचाभ्यां दाभ्यां रूपाभ्यामुच्चैर्नीचैश्च स्थापयन् प्राणभाजी विजृम्भते ७ । अष्टमः पुनरन्तराय-नामा दान-लाभभोगोपभोग-वीर्याणां विघ्नभूतैः पञ्चभिः शरीरैः प्रगल्भते ८।
૧૨૬
-
इत्यष्टभिः प्राहरिकैः प्रचण्डैः कदर्थ्यमानं भवचारकेऽस्मिन् । यः स्वं पुमान्मोचयितुं यतेत स एव पुंस्त्वं बिभृते न शेषः ॥ ७९५ ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org