________________
पंचमो पत्थावो
अन्यदा उद्यानपालकेन प्रणिपत्य विज्ञप्तो यथा - कुमार ! कुसुमाकरोद्याने स्वर्गापवर्गपुर-मार्गस्पन्दनश्चारुचारित्र - चमत्कृतसंक्रंदनः सकल- जगज्जय-जातदर्प-कंदर्प-निष्कन्दनः, शुभोपदेशवचन - शैत्यगुणाऽवगणित- हरिचन्दनः पक्षिराज इव विनतानन्दनः श्री विनयनन्दन - सूरिराययौ । तं निशम्य गदितं मुदितोऽस्मै पारितोषिकमदत्त कुमारः । गन्ध-सिन्धुरमसावधिरूढस्तस्य वन्दन - निमित्तमगच्छत् । वीक्ष्य सूरिमवतीर्य करीन्द्रात् पर्वतादिव मृगेन्द्र- किशोरः, भूरि- भक्तिभरनिर्भर - चेताः स प्रणम्य निषसाद पुरस्तात् ।
सूरिरुग्रभवदावसमुत्थं विप्लवं प्रशमयंस्तनुभाजां । कर्त्तुमारभत मन्द्र-निनादो देशनाममृत-वृष्टिभिवाब्दः ||७१२|| आर्य देश - कुल-रूप-बलाऽऽयु-बुद्धि-सङ्गतमवाप्य नरत्वं । नात्मनोदितविधौ यतते यः पोतमुज्झति पयोधिगतः सः ||७१३|| आधि-व्याधि-विसर्पि-दंश-मशके मोहांधकारावृते,
राग-द्वेष- कपाट - संपुट- घने संसार- कारागृहे । आत्मा सैष कषाय- कुड्य - कलिते रुद्धो हठादष्टभिः,
Jain Education International
कर्म्म- प्राहरिकैश्चतुर्गति- महाकोण - स्थितः पीड्यते ||७१४ ||
तत्राऽऽद्यः प्राहरिको ज्ञानावरण-नामा पञ्चभिर्मति श्रुताऽवधि - मनः पर्याय- केवलावरण-स्वरूपै रूपैरुपेतः पीडयति सर्व्वजन्तून् १ । द्वितीयो दर्शनावरण-नामा नवभिर्निद्रा-निद्रानिद्रा-प्रचलाप्रचलाप्रचला - स्त्यानर्द्धि - चक्षुरचक्षुरवधि-के वलदर्शनावरण- लक्षणै रूपैः कदर्थयति देहिनः २ । तृतीयो वेदनीय-नामा दाभ्यां साताऽसातस्वभावाभ्यां रूपाभ्यां विडम्बयति सत्वान् ३ । चतुर्थो मोहनीय-नामा, तत्र मिथ्यात्व-मिश्र-सम्यक्त्वैस्त्रिभेदो दर्शन-मोहः, क्रोध- मान-मायालोभैः प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यान - प्रत्याख्यानावरण-संज्वलन - रूपैः षोडशभिः कषायैः स्त्री-पुं- नपुंसकवेद - हास्य- रत्यरति - शोकभय - जुगुप्सारूपैर्नवभिर्नो कषायै च पंचविंशति रूपश्वारित्र - मोह इत्यष्टाविंशत्या रूपैः संसार- कारागारान्निः सरन्तं निवारयत्ययमात्मानं ४ |
For Private & Personal Use Only
-
www.jainelibrary.org