________________
- SETUBANDHA. . .
16. K and MY (ms. B) pratika has apaditthia for apario (R). Kula pratika has apario. K reads nibbhara ccia which is mentioned by R as a variant. Kula reads nibbharam cia like R.
__K says एवं क्षपितेऽपि मयि यतो येन प्रदेशेन युष्माभिर्गम्यते तत्रापि दलन्महीतलं पङ्कमयत्वात् दीर्यमाणस्थलं पातालं दुर्गमं स्यात् । मयि सलिलनिर्भर एव केवलं न खलु दुर्गमम् । तस्मात् जलशोषणमकिंचित्करमेव,
Kula says अक्षयिते मयि सलिलनिर्भरमेव जलभरितमेव पातालं दुर्गमं न खलु । क्षयितेऽपि मयि दुर्गमं पातालम् । कथमित्याह-अपरिस्थितम् अवधिशून्यं मूलस्य तलमधोभागो यस्य तत् तथा । यत्र गम्यते तत्र दलन्महीतलम् । एतेन तलस्य प्राप्तिः पङ्कदुःसरत्वं च दर्शितम्. R says अपरिस्थितं न परि सर्वतोभावेन स्थितम् । अदृढमित्यर्थः.
____17.. K reads दरत्रुटित (darakkhudia, cf. SC text) for darukkitta= दरोत्कृत्त (R). SC chaya has दरखण्डित. Kula's reading seems to be same.
___K says तस्मात् कालस्यान्तकस्य पदं दशमुखे निषीदतु । कथंभूतम्दरच्छिन्नात् दशमकण्ठात् कथमपि स्खलितमीश्वरसांनिध्यात् प्रतिबद्धं, चिरकालमाकुञ्चितं निक्षेप्तुमुद्यतं, तथा निषीदतु वानरैः घटितसेतुबन्धं यथा । इत्येवमुक्त्वा समुद्रो विरराम.
__MY says tam तस्मात् । जलक्षपणस्य अनुपायत्वादित्यर्थः. Kula says यत एवं तत् तस्मात् कालस्य यमस्य यत् पदं शङ्कराराधनाय नवसु कण्ठेषु छिन्नेषु सत्सु निधातुं प्रसारितम् , कथमपि अथार्धखण्डिते दशमे कण्ठे शङ्करस्य प्रसन्नत्वात् स्खलितं सत् , कदापि निधास्यत इति आरोपणाय चिरकालमाकुश्चितम् उत्क्षिप्य वक्रयित्वा स्थापितं, तदिदानीं त्वया निःशेषळूनकण्ठे दशमुखे घटितो गिरिभिः सेतुबन्धो निषदनाय यस्मै तद् यथा स्यात् तथा निषीदतु । तत् बध्यतां गिरिसेतुरित्यर्थः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org