________________
276
Muda says duppariallā अशक्याः and quotes Desi nāmamālā 5.55. He says मर्यादा लोकस्थितिर्वेला च .
SETUBANDHA
27. K says प्रत्यक्षादनुभवावस्थायामात्मनः प्रत्यक्षात, कथमपि कथञ्चित् यदृच्छया क्षणघटितात् काकतालीयसदृशात् अनुभूतादप्यर्थात् मम श्रुतमेव शास्त्रश्रवणमेव गुरु । कीदृश-परोक्ष कालान्तरे फलप्रदम् । आगमेन उपदेशेन विशुद्धम् । अतएव संचालित निष्कम्पं पूर्वपक्षयुक्तिभिः संचालितमपि सिद्धान्तयुक्तिभिः निष्कम्पम् । त्वरावद्भिः सहसा क्रियमाणं कार्यं यदृच्छया घटेत वा न वा । शास्त्रोक्तमार्गेण क्रियमाणं कार्यमेव सिध्यतीति मम पक्षः इत्यर्थः .
F
MY says प्रत्यक्षादपरोक्षज्ञानविषयात्,.. ... कथमपि तुलाग्रघटितात अवधानेन तुलासंमितात । अनेन दृढनिर्णीतत्वं लक्ष्यते । तथा च लोकमन :प्रणिधानादिसहकारिसम्पत्तिबलात् अव्यभिचारिप्रत्यक्षविषयीकृतादपीत्यर्थः । अथवा तुलाग्रघटितत्वेन अनुमान निश्चितमुच्यते । तुलाग्रस्य मानसाधनस्य अवनमनोन्नमनरूपलिङ्ग निश्चितादपीत्यर्थः । ततश्च प्रत्यक्षानुमानाभ्यां प्रमितादपि भागमसिद्धं श्रुतमेव गुरु इति । संचालित निष्कम्पं संचलनानुगुणपूर्वपक्षयुक्तिरूपतद्व्यापारविषयीकृतत्वेऽपि निश्चलमित्यर्थः । अनेनानुकूलतर्कद्वारा अन्यथा सिद्धिशङ्कानिरास उक्तः । अनुभूतादपि प्रत्यक्षगृहीतादपि श्रुतमेव आगमविषयीकृतमेव अभ्रान्ततया श्रद्धेयमित्यर्थः
"
·
Jain Education International
Muda says मम अनुभृतादपि श्रुतमेव गुरुकम् । अनुभूतमिन्द्रियजन्यज्ञानं श्रुतं शास्त्रजन्यम् । कथं गुरु इत्यपेक्षायां विशेषणद्वारा हेतुमुपन्यस्यति । प्रत्यक्षात् - अनुभूतं हि अक्षाणीन्द्रियाणि प्रतिगतम् । एतेन इन्द्रिय देशकाल - स्वभावविप्रकृष्टवस्त्ववगाहित्वाभावात अल्पविषयत्वमुक्तम् । तथा कथमपि काकतालीयघटितातु-अनुभवस्य हि काकतालीयन्यायेन संवादात प्रामाण्यम् । इन्द्रि - याणां दोषबाहुल्यात् । श्रुतं कीदृशम् - प्रत्यक्षेभ्यः पराग्भूतम्, आगमेन आप्तवाक्येन विशुद्धम् । अतीन्द्रियवस्त्ववगाहि करणदोषविकलं चेत्यर्थः ।
For Private & Personal Use Only
www.jainelibrary.org