________________
SETUBANDHA
273 Muda says एकान्तेन नैयत्येन गृहीतः पक्षो विरुद्धपक्षो येन स तथोक्तः । यथा विषादादयो धैर्यादीनां विरुद्ध पक्ष स्वीकृत्य तानि हरन्ति, तथा वयःपरिपाकोऽपि . यत् क्षपयति तत् कथ्यताम् । न किंचित तादृगित्यर्थः । sisau इति कथेः सीसादेशः। शिष्यतामिति वा .
Kula says प्रथमे वयसि विषयास्वादस्नेहेन विवेकलोपात् कार्यप्रतिपत्तिविच्छेदेन अप्रतिपत्तिः विषादो भवति । ...........एकान्तो निश्चयः तेन गृहीतः पक्षः साध्यः (१) येन स वयःपरिणामः तेषां विषादयौवनमदानानां मध्ये किं sisau कथ्यतां यत् स्थापयति, न किमपि अपि तु सर्वमेतत् विनाशयतीत्यर्थः । अत:.............तदविरोधिवयःपरिणतिसाध्यानां धैर्यविनयलज्जानां योगो भवति । तेन च कार्यतत्त्वज्ञानं भवति । उच्चावचं त्यक्त्वा मम परिणतवयसः बुद्धया प्रवृत्तिः क्रियतामिति भावः . R says एकान्ततः तत्त्वतो गृहीतः पक्षः सिद्धान्त इदमित्थमेवेति निर्णयरूपो येन तादृशो वयःपरिणामो वार्धकं कर्तृ विषादो धैर्य......... हरतीत्येवमादिप्रकारेण यत् स्थापयति स्थिरीकरोति, निर्धारयतीति यावत् , तत् किं शिष्यतां कथ्यताम् .
24.
K and MY pratika has anuhāya (अनुभूय) .
K says जरापरिणतस्य मादृशस्य उल्लापान् वाक्यानि यूयं मावमन्यध्वम् । कीदृशान्-अनुभूय ज्ञातव्यान् , विघटितानि विगलितानि विषमानि अक्षराणि येषां तान् तथाभूतानपि संघटितार्थान् , यौवनमूढैः प्रहसितान् .
MY says अनुभूतिः फलतः, ज्ञातव्यत्वं तु प्रामाण्यतः। फलाविसंवादात प्रमाणतया ज्ञातव्यानित्यर्थः। स्वरूपे अक्षराणां विघटनमश्लिष्टत्वं, वैषम्यमुच्चावचता । एतच्च द्वयं स्थानकरणाद्यपाटवनिमित्तम् । विसंघटितार्थान् स्वरूपेण आपाततया प्रतीयमानान् । अथवा विघटिताक्षरानपि संघटितार्थान् .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org