________________
264
.
. SETUBANDHA
__MY says कपिहृदयेषु अन्धकारः प्रकाशाभावः अप्रतिपत्तिरिति यावत् . Kula says एकत्रान्धकारो विषादः, अन्यत्र तिमिरम्। धुतान्धकारत्वात् विकटानि विशालानि हृदयानि गिरिशिखराणीव उन्नतत्वात् , गमनोत्साहः अरुणातप इव तेजःस्वभावत्वात् अनुरागयोगाच्च वहुषु एकः समं युगपत् आरूढः . R say: विकटानि व्यक्तानि.
3. K reads अमर्षः (amariso) for pahariso.
K says ततो दर्पस्य मुखप्रसादः दर्पमयस्य पुरुषस्य मुखप्रसादो, हृदयहसितस्य हृदयविकासस्योद्योतः प्रकाशो, रणविक्रमस्य अग्रहस्तः विक्रमस्य प्रहारशीलत्वात् प्रहर्तुमुद्यतः अग्रहस्तः तेषाममर्षः निजस्वभाव इव कापेयमिव विस्तरितुमारब्धः। पूर्व प्रकृतिचटुलत्वमपि गलितमित्युक्तम् । तदपि अमेषेण सह पुनरागतमित्यर्थः । निजकसहाय इति वा .
MY says निजस्वभाव इवेति निनस्वभावोऽपीत्यर्थः। यथा हि पुंसां मुखप्रसादः अन्तर्गतस्य दर्पस्य व्यञ्जकस्तथा प्रहर्षोऽप्येव । हृदयस्य हसितं () विस्ताराख्या भूमिः। यथोक्तं रसविद्भिः
स्वादः कार्यार्थसम्भेदादात्मानन्दसमुद्भवः ।
विकारविस्तरक्षोभविक्षेपैः स चतुर्विधः ।। इति। एवं विक्रमस्य वीररसस्थायिभावयुद्धोत्साहस्य अग्रहस्तः प्रधानाङ्गं प्रहर्षः प्रहर्षजचेष्टाकारणेन कार्योंपलक्षणात् । एवं च युद्धोत्साहो वीररसोत्पादे स्थायी भावः । गर्वहर्षावनुभावौ । यथोक्तम्
: वीरप्रतापविनयाध्यवसायसत्वामोहाविषादनयविक्रमविरूयाद्यैः ।
उत्साह ..........रणदानयोगास्त्रेधा किलात्र मतिगर्वधृतिमहर्षाः ।।
इति। एवं च दर्पहर्षकापेयचेष्टा युगपत् प्रावर्तन्तेति तात्पर्यम् .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org