________________
230
SETUBANDHA
4. K says यशसश्च सज्जनस्य च साधर्म्यमुच्यते । अभिमुखं यशः मा प्ररुन्द्ध मा निवारयत । अस्मासु निष्कारणोपकारिणो रामस्य प्रत्युपकारनिर्वर्तनात् आगमिष्यन्ती कीर्ति विषादविक्लवा यूयं मा निवारयतेत्यर्थः। कथंभूतं यशः-शाश्वतशौण्डीयं, शौण्डीरः समर्थः तस्य भावः शौण्डीर्यम् , शाश्वतं कल्पान्तरावस्थायि शौण्डीयं यस्य तत् तथाभूतम् । सुजनोऽपि तथाविध एव । कथमपि निवर्तमानसंमुखसंस्थापितपदम् । इयमस्य योजना- प्रथममभिमुखं भूत्वा युष्माकं समुद्रदर्शनसमये निवर्तमानं पराङ्मुखीभवत , पुनर्युष्मत्सामर्थ्यावगमात् कथमपि संमुखमभिमुखं संस्थापित पदं पदविन्यासो यस्य तत् तथाभूतम् । आगतमपि वितर्कयत् पुनः संशयानम् । किमिव--प्रणयन्तं याचमानं सुजनमिव । सज्जनस्तु दारिद्रयात् किञ्चित् दातारं प्रार्थयितुमुद्यतः प्रथमं कतिचित् पदानि गत्वा पुनरभिमानात् निवृत्तान्यपि पदानि गत्यन्तराभावात् अभिमुखस्थापितानि कृत्वा पुनः संशयानो भवति तद्वदित्यर्थः। प्रणयः स्यात् परिचये याज्ञायां सौहृदेऽपि च इति वैजयन्ती .
MY says vitthakkantam व्याकुलीभवन्तम् । वितर्काक्रान्तमिति केचित् । ma parumbhāha मावमन्यध्वम् । मापरुन्ध इति वा। sāsaa - sodiram शाश्वतशौडीयं सुजनस्य स्वाभाविकं नैरपेक्ष्यरूपं शौडीयं, यशसस्तु स्वहेतुतया ।...........आगतव्याकुलीभवन्तं तदर्थोद्योगेनागतम् , अपारसमुद्रदर्शने शिथिलीभवत् । प्रणयार्थमागतस्यापि सुजनस्य तद्भङ्गभयात् व्याकुलीभावः स्फुटः।
Muda says यशो मा रुम्ध्वं मा निवारयतेत्यन्वयः .
Muda (chāya) has आगतविलम्बमानं . He says vitthakkantam फक्क नीचैर्गतौ। फक्कः थक्क इत्यादेशः (cr. Hemacandra 4. 87, 259)। तिष्ठतेर्वा विलम्बमानमित्यर्थः (cf. ibid. 4.16).
Jain Education International
"For Private & Personal Use Only
www.jainelibrary.org