SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ 182 SETUBANDHA 18. K says दिनमणिमयूखैः स्फुरितं जलशीकरमित्रैः दिनकररश्मिभिः उद्भूत, धनलक्ष्म्या मेघश्रियो रत्नरशनादाम, ऋतुरेव मदनः तस्य बाणपात्रं तृणीरं, नभोमन्दारवृक्षस्य नवकेसरमिन्द्रधनुः गलितं मेघेभ्य इति शेषः . MY says moha मयूख । रविकिरणस्फुरणात घनेषु आविर्भूतम् । अथवा दिनमेव मणिस्तस्य मयूखस्फुरणम् । ऋतुरेव मदनबाणस्तस्य पत्रं निर्वाहकमित्यर्थः . Kula says दिनमणेः सूर्यस्य मयूखानां स्फुरितं रविरश्मेर्विकास एवेन्द्रधनुरित्यर्थः। नायिकाया इव धनलक्ष्ष्या नानारत्नमय काञ्चीदामेव । ऋतुर्वर्षाख्यो मदन इव तस्य बाणानां पात्रं सन्धानयोग्यम् . 19. K says घनसमय इति कश्चित् पुरुष उच्यते । नभोमयस्य पादपस्य शाखाभूता दिशो घनसमयेन आकृष्टाः संकोचिताः अत एव अवनताः मेघच्छन्नत्वादानताः ततः शरदि विमुक्ताः, धुतमेघमधुकराः विधुतमेघाख्यभ्रमराः भूत्वा निजं स्थानमाकर्षणात् पूर्वावस्थान प्रतिगतत्वात् भप्रकाशाः शरदि मेघापायात प्रकाशा दिशः कविनैवमुत्प्रेक्षिताः . Kula says नमसः पादपस्येव शाखा इव दिशः धनसमयेनाकृष्टाः सद्योऽवनता इव संनिहिताः कृताः पश्चात् विमुक्ताः। अतो निनस्थानं पूर्वस्थान प्रतिगता इव मेघावरणापगमात् दूरे तासां प्रतीयमानत्वात् । वेगेन गमनात धुता मेघा मधुकरा (इव) यासां तास्तथा . The verse is quoted in Sarasvatīkaộthābharaṇa 4.47 with the remark : अत्र पादपरूपेण रूपितस्य नभसो यदेतत् दिशां शाखारूपेण रूपण मेघानां च मधुकरप्रकरेण तदुभयमप्यन्यपदार्थषष्ठीसमासयोरभिधीयमानेन सावरवं निरवयवं चेत्युत्प्रेक्षया च संकीर्यमाणमुभयसंकीर्णरूपकव्यपदेश लभते . 20. K says दरशब्दः ईषदर्थः। निर्मितमज्जनसुखाः वर्षजलेन कृतस्नानसुखाः, अत एव अभिनवस्निग्धालोकाः अभिनवसुकुमारच्छक्यः । आसारो वर्षम् । अतीतेन आसारेण उद्देशेषु दृश्यमानजलशकलाः। स्नातानामपि अङ्गेषु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001384
Book TitleSetubandha
Original Sutra AuthorN/A
AuthorKrishnakant Handiqui
PublisherPrakrit Text Society Ahmedabad
Publication Year1976
Total Pages812
LanguageEnglish, Sanskrit
ClassificationBook_English & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy