SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ SETUBANDHA 181 णानां कदम्बवातादीनां गमितत्वेऽपि नास्य जीविते निश्चयः विरहान्नेः पूर्वतो निर्विशेषत्वात् . Kula says रागस्य तीव्रतमत्वात् तत्प्रशमहेतोः सीतालाभस्य रावणवधस्य च सन्दिग्धत्वात . 16. K says हरिपतेः सुग्रीवस्य यशःपथः रामकार्यप्रवृत्तस्य सुग्रीवस्य यशःप्रसारणमागों यात्राकालत्वात् । राघवजीवस्य प्रथमो हस्तालम्बः, सीतायाः बाप्पविच्छेदकारी, दशमुखस्य वध्यदिवसो वधार्हदिवसः। अहे कृत्यतृचश्चेत्यहाथै यप्रत्ययः । एवरूपिता शरदुपागता। शरदो द इति दकारादेशः . It will be seen that K reads sarado for sarao following Vararuci 4.10. ___Kuli says राघवजीवस्य प्रथमो हस्तावलम्बः, कार्यानुगुणत्वात् शरत्कालस्य तमालम्ब्य स्थैर्यलाभात् । सीताबाष्पविघातः, विहन्यते अनेनेति विघातः . 17. K says प्राकृतेषु लडन्तानि पदानि भूतार्थानि द्रष्टव्यानि । नभस्तलमशोभत । किमिव—पितामहोत्पत्तिपङ्कजमिव नारायणनाभिकमलमिव । की हगभूतम् -रविकरकेसरनिवहं रविकिरणमयकेसरनिवहयुक्तम् । रविरेव कर्णिकात्वे कविना कल्पित इति बोद्धव्यम् । धवलानि अभ्रदलानि मेघशकलान्येव दलसहस्रं तेन परिगतम् । नाभिसमुत्पन्नत्वात् मधुमथनदर्शनस्य योग्य पितामहोत्पत्तिकमलं भवति । नभस्तलमपि तदानीं शरदि योगनिद्राविरामात् मधुमथनस्य दर्शनयोग्य भवतीति . MY says रविकराणां केसरत्ववर्णनात तद्विम् कर्णिकात्वेन सिध्यति । नभसो मघुमथनदर्शनयोग्यत्वं तस्य तदानी प्रबोधात् । पङ्कजस्य तु तथात्वमाभिमुख्येन नाभ्यामवस्थानात् . Kula says अधोमुखपद्माकारत्वेन प्रतीयमानत्वात् प्रसिद्धविबोधस्य मधुमथनस्य दर्शनयोग्यम् । सुप्तोत्थितानां हि महतां शङ्खादर्शपद्मादिप्रशस्तदर्शनमुचितम् ।........... ......महत्त्वात् पितामहोत्पत्तिपङ्कजमिव गगनतल राजते . S. 24 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001384
Book TitleSetubandha
Original Sutra AuthorN/A
AuthorKrishnakant Handiqui
PublisherPrakrit Text Society Ahmedabad
Publication Year1976
Total Pages812
LanguageEnglish, Sanskrit
ClassificationBook_English & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy