________________
174
SETUBANDHA
पत्तिस्थितिप्रलयहेतुं विष्णुम् । विष्णुरिति प्रकटस्याप्यस्य यत् परमार्थ . तन्न कोऽपि वेत्तीत्यर्थः। एतेन एतदुक्तं त्रैलोक्ये यत् किंचित .... स्थूलसूक्ष्मादिवस्तुजातं तत् सर्व विश्वमूतः विष्णोः स्वाभाविकरूपम् । अतो वर्धनप्रसारणादेः लोके सिद्धहेतो. रनवसर (2) एवेति . R has परिश्लक्ष्ण-अप्रलघुको महांश्चासौ परिश्लक्ष्णः कृशश्चेति तथा . Kula also says किश्चात्र ...पञ्चमहाभूतात्मकहरिनमस्कारोऽपि...लक्ष्यते। तथाहि प्रथमेन पादेन आकाशम् । द्वितीयेन पृथिवी । तृतीयेन जलम् । चतुर्थन पवनः तस्य महाबलपराक्रम...इन्द्रियाविषयत्वात परिसूक्ष्मता च। त्वगिन्द्रियेण स्पर्शमात्रं गृह्यते न वायुरिति न्यायमतम् । पञ्चमेन तेजः। तथा च वह्निरिति प्रकटोऽपि किमयं देवतारूपः, किं वा तेजोद्रव्य(रूपः).......... .
__2. K_says दनुजेन्द्रो हिरण्यकशिपुः । तस्य वक्षःस्थलविदलने प्रवृत्तस्य यस्य स्फुरति प्रथमं वक्षसि स्तनांशुकवत् प्रकाशमाने नखप्रभासमूहे पश्चात् तस्य भिन्नवक्षसो रुधिरलग्ने रुधिरेषु निमग्ने सति महासुरस्य तस्यैव लक्ष्मीः स्तनांशुके गलिते इव गुप्यन्ती व्याकुलीभवन्ती विपलायिता। तं प्रणमतेति पूर्वेण संबन्धः । अयमर्थः-महासुरवक्षःस्थलनिवासिनी दानवश्रीः प्रथम निजस्तनांशुकवत् प्रकाशमाने नरसिंहस्य नखप्रभाविताने सद्य एव भिन्नहृदयस्य दैत्यस्य वक्षोरुधिरनिमग्ने सति अपहृतस्तनांशुकेव पर्याकुलीभवन्ती देवस्य पुरः स्थातुमसमर्था लज्जातिरेकात् नियमाणं भर्तारमपि परित्यज्य शीघ्रं प्रयातेति । उत्तरभूमौ हि स्त्रियः परिधानीयमिव स्तनांशुकं संततं धारयन्तीति प्रसिद्धम् .
3. K says अरिष्टो नाम वृषभाकृतिः कंसामात्यो महासुरः। अरिष्टशब्दस्य आद्यक्षरलीपः । पीनत्वात् दुर्ग्रहम् अतिमेदुरत्वादन्यैः ग्रहीतुमशक्य, यस्य कृष्णस्य भुजायन्त्रेण भुजद्वयमण्डलेन निष्टुरमतिदृढं परिगृहीत, विषमवलितं भृश विवर्तितम् अरिष्टस्य कण्ठं जीवितं तस्य जीवं दुःखेन अतिकृच्छ्रात् अतिक्रान्तमती त्य गतम् । वस्त्रवत् कण्ठनिष्पीडनात् वक्रीकृतेन कण्ठनालेन कथञ्चित् निर्गतमित्यर्थः. MY remarks. विषमवलितत्वं नीवितस्य दुःखेनातिक्रमणहेतुः, Kula
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org