________________
રરર
वज्जालग्गं
[72-272*2). अहिढे रणरणओ दिढे ईसा अदिट्ठए माणो।
दूरं गए वि दुक्खं पिर जणे सहि सुहं कसो' ॥२॥ 72*3) अज्जाहं पुष्फवई तुम पि रे चुंबणसयण्हो।
तह चुंब जह न छिप्पसि भणिऊण समप्पिओ अहरो॥३॥ 72*4) हत्थे ठियं कवालं न मुयइ वराई खणं पि खट्टंग।
सा निहय तुज्झ कए बाला कावालिणी जाया ॥४॥ 72*5) कीरइ समुहतरणं पविसिज्जइ छयवहम्मि पज्जलिए।
आयामिज्जइ मरणं नत्थि दुलंघं सिणेहस्स ॥५॥
___72*2) [ अदृष्टे रणरणको दृष्ट ईर्ष्या अदृष्टे मानः । द्रं गतेऽपि दुःखं प्रिये जने सखि सुखं कुतः ॥ ] हे सखि प्रिये जने सुख कुतः ।। अदृष्टे सति रणरणक औत्सुक्यम् । यतः श्रीहेमसूरियादेरौत्सुक्यम् । ( ? ) रणरणरणको.... ( ? ) दृष्टे सति ईषा वाञ्छा । दूरं गते सत्यपि दुखम् । अतः कारणात् प्रिये जने सौख्यं स्वल्पम् ॥ ७२२ ।।
72.3) [ अद्याहं पुष्पवती त्वमपि रे चुम्बनसतृष्णः । तथा चुम्ब यथा न स्प्रशसि भणित्वा समर्पितोऽधरः ।। 1 हे सुभग अद्याहं पुष्पवती ऋतुमती वर्ते। त्वमपि चुम्बनसतृष्णो वर्तसे । तथा चुम्ब यथा स्पर्शों न भवति ।।७२३॥
72*4) [ हस्ते स्थितं कपालं न मुञ्चति वराकी क्षणमपि खट्वाङ्गम् । सा निर्दय तव कृते बाला कपालिनी जाता ।। ] हे निर्दय तव कृते सा बाला कापालिनी जाता, योगिनी बभूव । कथम् । कपालं हस्ते स्थितम् । यतश्चिन्तातुरो गलकहस्तं ( ? कपाले हस्तं ) करोति । सा वराकी क्षणमपि खट्वाङ्गं न मुञ्चति । खट्वाया अङ्गं खट्वाङ्गम् । चिन्तातुरः प्राणी खटामवलम्बते । द्वितीयोऽर्थः । अन्यापि या कापालिनी योगिनी भवति सा हस्तस्थितं कपालं बिभर्ति । योगिनी अन्यापि क्षणमपि खटाङ्गं रक्षाकोलिकां न मुञ्चति । सा वियोगिनी तव स्त्री एवंविधा जाता ॥ ७२ ४ ।।
72*5) [ क्रियते समुद्रतरणं प्रविश्यते हुतवहे प्रज्वलिते। आकाम्यते मरणं नास्ति दुर्लध्यं स्नेहस्य ॥ ] सुगमेयं गाथा ।। ७२*५ ।। __ 1. Cf. Gatha No. 338.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org