SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ -~72*1] मित्तवज्जा २२१ 64*4) आरंभ च्चिय चडुयारयाण निप्पन्नकजविमुहाणं । . मंडलसुरयाण व दुज्जणाण मग्गो च्चिय अउवो ॥४॥ 64*5) पयडियपयावगुणकित्तणेण लज्जंति जे महासत्ता। इयरा पुण अलियपसंसणे वि अंगे न मायंति ॥ ५॥ मित्तवज्जा। 72*1) सुरसरिपूरं वडविडवितुंगिमा सुयणलोयपडिवनं । पढम चिय ते लहुया पच्छा जायंति गरुयाई॥१॥ सन्तौ जीवतः । कथं बधिरान्धलौ क्वापि धन्यौ वयेते । यतः पिशुनवचनं न शण्वन्ति, अत एव बधिरा धन्याः । तथा अन्धलाः खलस्य ऋद्धीने प्रेक्षन्ते । अत एव द्वावपि धन्यौ ।। ६४*३ ॥ 64*4) [ आरम्भ एव चाटुकारकाणां निष्पन्नकार्यविमुखानाम् । मण्डलसुरतानामिव दुर्जनानां मार्ग एवापूर्वः ॥ ] दुर्जनानां मार्ग एवापूर्वो विपरीतः । कथम् । आरम्भ एव चटुकारकाश्चटुवाक्यानि वदन्ति । चटुवाक्यरतानामित्यर्थः । पुनः किंप्रकाराणां दुर्जनानाम् । निष्पन्नकार्यविमुखानाम् । निष्पन्ने कार्ये विमुखा निष्पन्नकार्यविमुखास्तेषां निष्पन्नकार्यविमुखानां दुर्जनानाम् । केषामिव । मण्डलसुरतानामिव श्वानमैथुनानामिव । किंप्रकाराणां मण्डलसुरतानाम् | आरम्भ एव चटुकारकाणाम् । आरम्भ एव चटुभावं कुर्वन्तीति आरम्भचटुकारकाः, तेषाम् । पुनरपि किंप्रकाराणां मण्डलसुरतानाम् । निष्पन्नकार्यविमुखानाम् । तेऽपि श्वानो निष्पन्ने कार्य विमुखा भवन्ति । दुर्जना अपि निष्पन्ने कार्ये विमुखा भवन्ति ॥६४*४॥ 64*5) [ प्रकटितप्रतापगुणकीर्तनेन लज्जन्ते ये महासत्त्वाः । इतरे "पुनरलीकप्रशंसनेऽप्यङ्गे न मान्ति ॥ ] ये महासत्त्वास्ते प्रकटितप्रतापगुणकीर्तनेन लज्जन्ते । लज्जापरायणा भवन्ति । इतरे नीचा अलीकप्रशंसनेनापि अङ्गे न मान्ति पुनः ।। ६४*५ ।। 72*1) [ सुरसरित्पूरं वटविटपितुङ्गता सुजनलोकप्रतिपन्नम् । प्रथम चैव ते लघुका पश्चाद् गुरुकाणि ॥] सुगमेयम् ॥ ७२*१ ॥ 1.Cf. Gatha No. 61. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001383
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages708
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy