________________
-626 : ६५.२]
ससयवज्जा 624) जह सा सहीहि भणिया तुज्य पई सुन्नदेउलसमाणो।
ता कीस मुद्धडमुही अहिययरं गव्वमुव्वहइ ॥ १४ ॥
६५. ससयवज्जा [ शशकपद्धतिः] 625) दुरुदुल्लंतो रच्छामुहेसु वरमहिलियाण हत्थेसु।
खंधारहारिससओ व्व पुत्ति दइओ न छुट्टिहिइ ॥१॥ 6:6) तिलतुसमेत्तेण वि विप्पिएग तह होइ गरुयसंतावो।
सुहय विवज्जइ ससओ चम्मच्छएण वि वराओ॥२॥
दीपकं देहि " इति श्वश्वा भणिता, ततः किमिति सा मुग्धमुखी हसित्वा प्रलोकयति हृदयम् । इयं श्वश्रूर्मम हृदये दीपकं दापयति । प्रियस्य वासस्तावन्मम हृदये। तस्मिश्च दीपकः कथं दीयत इति हृदयावलोकनम् ॥ ६२३ ॥
624) [ यदि सा सखीभिर्भणिता तव पतिः शून्यदेवकुलसमानः। तत् कस्मान्मुग्धमुखी अधिकतरं गर्वमुद्वहति ॥ ] यदि " तव पतिः शून्यदेवकुलतुल्यः" इति सखीभिर्भणिता, ततः किमिति सा मुग्धमुखी अधिकतरं गर्वमुद्वहति । इदमत्र बीजम् । आभिर्मम भर्ता रन्तुं याचितः । ततस्ताः सुभगाः अहं नपुंसकोऽस्मीत्युत्तरयामास । ततो धन्याहं यस्या भर्तान्या न कामयत इति गर्वमुवाह ॥ ६२४ ।।
625) [ परिभ्रमन् रध्यामुखेषु वरमहिलानां हस्तेषु । स्कन्धावार-- हारिशशक इव पुत्रि दयितो न मोक्ष्यते ॥ ] रथ्यामुखेषु वरमहिलियाणा हत्थेसु वरस्त्रीणां हस्तेषु परिम्रमन् हे पुत्रि दयितो न छुट्टिहिइ है। किंविशिष्टः । खंधारहारिससओ व स्कन्धावारमध्यगतशशक इव । यथा कटकमध्य आगतः शशकः क्वापि न छुट्टति, तथा वरवनितादृष्टिगोचरीभूतस्तव भापीति ॥ ६२५ ॥
626) [ तिलतुषमात्रेणापि विप्रियेण तथा भवति गुरुसंतापः । सुभग विपद्यते शशकश्चर्मच्छेदेनापि वराकः ।। ] तिलतुषमात्रेणापि विप्रियेण तथा भवति संतापः । हे सुभग शशकश्चर्मच्छेदेनापि विपद्यते । विप्रियेणाफि विनाशकत्वात् ॥ ६२६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org