________________
वजालग्गं
[627 : ६५.३
627) इह इंदधणू इह मेहगज्जियं इह सिहीण उल्लायो।
पहिओ हारी ससओ व्व पाउसे कह न भालेइ ॥३॥ 628) जा इच्छा का वि मणोपियस्स तग्गय मणम्मि पुच्छामों।
ससय वहिल्लो सि तुमं जीविज्जइ अन्नहा कत्तो॥४॥ 629) अलिएण व सच्चेण व गेण्हसि नाम पि दङ्गमणस्स।
सुहय विवज्जइ ससओ चम्मच्छेएण वि वराओ॥५॥
६६. वसंतवज्जा [वसन्तपद्धतिः ] 630) वणयतुरयाहिरूढो अलिउलझंकारतूरणिग्योसो।
पत्तो वसंतराओ परायवरघुट्ठजयसहो ॥१॥ 627) [ इहेन्द्रधनुरिह मेघगर्जितमिह शिखिनामुल्लापः । पथिको हारी शशक इव प्रावृषि कथं न पश्यति ।। ] अत्रेन्द्रधनुरत्र मेघगर्जितम् अत्र शिखिनामुलापः । पथिको हारी शशक इव प्रावृट्काले कथं न पश्यति । प्रावृट्काले शशकपथिको दुःखिनौ भवतः ॥ ६२७ ॥
___ 628) [ येच्छा कापि मनः प्रियस्य तद्गतं मनसि पृच्छामः । शशक शीतोऽसि त्वं जीव्यतेऽन्यथा कुतः ॥ ] येच्छा कापि मनःप्रियस्य तद्गतं मनसि पृच्छामः । हे शशक त्वरितोऽसि त्वं, जीव्यतेऽन्यथा कुतः ।।६२८॥
629) [ अलीकेन वा सत्येन वा गृह्णासि नामापि दग्धगमनस्य । सुभग विपद्यते शशकश्चर्मच्छेदेनापि वराकः ।। ] अलीकेन वा सत्येन वा गृह्णासि नामापि दग्धगमनस्य । हे सुभग शशकश्चर्मच्छेदेनापि विपद्यते वराकः । प्रेमारूढं वचनेनैव कमलनालवत् त्रुट्यति, अतिकोमलत्वात् ॥ ६२९ ॥
630) [ वनकतुरगाधिरूढोऽलिकुलझङ्कारतर्य निर्घोषः । प्राप्तो 'वसन्तराजः परभृतवरघुष्ट जयशब्दः ।।] वसन्तराजः प्राप्तः । राजत्वमेव विशेषणैर्विशिनष्टि । वनतुरगाधिरूढः । अन्योऽपि यो राजा भवति स तुरगाधिरूढो भवति । अलिकुलझङ्कारतूर्यनिर्घोषः । परभृतवरघुष्टजयशब्दः 'परभृतेन वरो घुष्टो जयशब्दो यस्य सः । अन्योऽपि यो राजा भवति स 'बन्दिभिः शब्दितजयशब्दो भवति ।। ६३० ।।
___1G, I कह णु भालेइ 2G, I पेच्छामो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org