SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ -619 : ६४.९] हियालीवज्जा 617) तं दळूण जुवाणं परियणमज्झम्मि पोढमहिलाए। उप्फुल्लदलं कमलं करेण मउलाइयं कीस ॥७॥ 618) हंतूण वरगइंदं वाहो एक्केण नवरि बाणेण। धुवइ सरं पियइ जलं तं जाणह केण कज्जेण ॥८॥ 619) कुंकुमकयंगरायं पडिहत्थपओहरी करंगच्छी। सयणम्मि नावगृहइ रमणं भण केण कज्जेण ॥९॥ हृदयेऽन्या निवसति, तस्याः पादप्रहारमसौ सहिष्यते नो वेति, यावदुत्थापयति अहाँ पादं तावच्छिरसि प्रत्यैच्छत् । ततस्तथेति नान्यथा मम शङ्का। इतः परं किं करोमीति स्थूलाश्रुभी रुरोद । यतः, रुदितमुचितमस्त्रं योषितां विग्रहेषु ।। ६१६ ॥ 617) [तं दृष्ट्वा युवानं परिजनमध्ये प्रौढमहिलया। उत्फुल्लदलं कमलं करेण मुकुलीकृतं कस्मात् ॥] प्रौढयुवत्या परिजनमध्ये तं लोकोत्तर युवानं दृष्टा, उत्फुल्लदलं कमलं करेण मुकुलीकृतं कुतः कारणात् । भावोऽयम् । परिजनमध्यस्थितं पूर्वमेव याचितसुरतं वल्लभमव टोक्य कथं प्रत्युत्तरयामीति करेण कलितं लीलान लिनं मुकुलयामास । सूर्यास्तमनेऽमूनि मुकुलीभविष्यन्ति, ततः परं त्वया समागन्तव्यम् इति कमलमुकुलने हेतुः ।। ६१७ ।। 618) [हत्वा वरगजेन्द्रं व्याध एकेन केवलं बाणेन । धावति शरं पिबति जलं तज्जानीत केन कार्येण ॥] व्याध एकेनैव बाणेन वरगजेन्द्र हत्वा शरं धावति, जलं' च पिबति, तज्जानीत केन कार्येण । अयं भावः । एकेनैव बाणेन वरगजेन्द्रहनने मम शक्तिरस्ति । मा जानातु कोऽपि विषाक्तेन शरेणामुं मत्तहस्तिनं जघानेति । शरप्रक्षालनपिबनं ( ? शरप्रक्षालनजलपानं ) प्रत्ययाय', विषाक्तशरजले पीते ममैवापि मृत्युभवतीति ॥६१८॥ 619) [ कुङ्कुमकृताङ्गरागं परिपूर्णपयोधरा कुरङ्गाक्षी। शयने नावगहति रमणं भण केन कार्येण || ] कुंकुमकृताङ्गरागं रमणं शयने नावगह ति कुंभिकुंभपयोधरा कुरङ्गाक्षी, तद्भण केन कार्येण । कुंकुमरागोऽप्यङ्ग-. स्पर्शसुखान्तराय आवयोर्मा भूदिति ॥ ६१९ ॥ 1I तज्जलम् , 2 I शरप्रक्षालनमपि जनप्रत्ययाय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001383
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages708
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy