________________
वज्जालगं
614) अच्छी हि पई सिहिणेहि दियवरं गुरुवणं नियंबेण । तिनि वि जूरेइ वहू न याणिमो केण कज्रेण ॥ ४ ॥
615 ) जइसा पइणा भणिया तिलयं विरपमि अत्तणो (? अत्तणा) तुज्झ । ता कीस मुद्धमुही हसिऊण परम्मुही ठाइ ॥ ५ ॥ 616) हियर रोगिण्णं पायपहारं सिरम्मि पत्थंतो । तह उत्ति पिओ माणसिणीइ थोरेंसुअं रुण्णं ॥ ६ ॥
१६८
किमिति सा मुग्धमुखी स्वकरेण गण्डस्थलमुत्पुंसयति । इदमुत्तरम् । मम मुखं तावत् केतकी कर्पूरधूलिधवलं, पूर्णिमाचन्द्रश्च मृगलक्ष्मदूषितः । ततो मम गण्डस्थले कुतस्त्यं कज्जलं लगितं, यन्मुखमृगाङ्कलक्ष्मणानुमिमीत इयमिति ॥ ६१३ ॥
[ 614 : ६४.४
614 ) [ अक्षिभ्यां पतिं स्तनाभ्यां द्विजवरं गुरुजनं नितम्बेन | त्रीण्यपि निन्दति वधूर्न जानीमः केन कार्येण || ] अक्षिभ्यां पतिं, स्तनाम्यां द्विजवरं, गुरुजनं श्वशुरादि नितम्बेन त्रीण्यपि जूरेइ निन्दतीति यावद् वधूः, तद्वयं न जानीमः केन कार्येणेति । आभ्यां स्तनाभ्यां निरुद्धत्वाद् हृदयस्य, अमुष्य ब्राह्मणस्य नमस्कारसूचकं मम शिरोनमनं न भवतीति किमित्यागादसाविति । अमुना नितम्बेन दुर्वहेण मम त्वरितं गमनं न संगच्छते श्वशुरादेः स्पर्शः कथं रक्षितव्य इति ॥ ६१४ ॥
1
615 ) [ यदि सा पत्या भणिता तिलकं विरचयाम्यात्मनस्तव ( विरचयाम्यात्मना तत्र ) । तत् कस्मान्मुग्धमुखी हसित्वा पराङ्मुखी तिष्ठति ॥ ] यदि सा पत्या भणिता । इति किम् ( किमिति ) । आत्मनस्तव तिलकं विरचयामि ततः सा मुग्धमुखी किमिति हसित्वा पराङ्मुखी भवति । इदमुत्तरम् । पतिस्तस्यास्तिलककरणव्याजेन मुखं चुचुम्बिषति । सा च "अहमिदानीमृतुमत्य स्मि, पश्य रुधिराक्तं मम वासः" इति पराङ्मुखीभूय दर्शनम् ।। ६१५ ॥
"
616) [ हृदये रोषोद्गीर्णं पादप्रहारं शिरसि प्रार्थयमानः । तथैवेति प्रियो मनस्थिन्या स्थूलाश्रुकं रुदितम् ॥ ] हृदये रोषोद्गीर्णं रोषादुत्थापितं पादप्रहारं भर्ता शिरसि प्रार्थयमानः, तथैव यथा मम मनसि शङ्काभूत् तथैव नान्यथेति स्थूलाश्रु यथा स्यादेवं रुदितम् । अयं भावः । अस्य
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org