________________
१६४
वज्जालगं
[ 600 : ६२.११
600) किसिओ सि कोस केसव किं न कओ धन्नसंगहो मूढ । कत्तो मनपरिओसो विसाहियं भुंजमाणस्स ॥ ११ ॥
601 ) विहडउ मंडलिबंधो भज्जउ रासो न मुच्चए कण्ह । नवसिय सहि लद्धो तुह हत्थो मज्झ हत्थेण ॥ १२ ॥ 602) कण्हो देवो देवा वि पत्थरा सुयणु निम्मविज्जंति । अंसूहि न मउइज्जति पत्थरा किं व रुग्णेण ॥ १३ ॥
लोक इति भणति । इतीति किम् । अयं पुराणपुरुषः डोलत्करः ( ? ), तत्सत्यमेव त्वं पुराणपुरुषः । येन कारणेन विशाखया यष्ट्या हस्तलग्नय परिभ्रमसि । ये पुराणपुरुषा भवन्ति, ते यष्टिमवलम्ब्य परिभ्रमन्तीति
1 भावः ॥ ५९९ ॥
।
600 ) [ क्रशितोऽसि कस्मात्केशव किं न कृतो धन्यासंग्रहो ( धान्यसंग्रहो ) मूढ । कुतो मनः परितोषो विशाखिकां विषाधिकं ) भुञ्जानस्य ॥ ] हे मूढ मूर्ख केशव किमिति कृशोऽसि । किं न कृतो धान्यसंग्रहः । कुतो मनः परितोषो विसाधितं भुञ्जानस्य । पक्षे । किमिति कृशोऽसि । किं न कृतो धन्यानां संग्रह: । विशाखिकां गोपीमुपभुञ्जानस्य कुतो मनः परितोषः । रुच्यं वस्तु यथा यथा भुज्यते तथा तथा तृष्णा वर्धतेतराम् । यो नित्यं विसाधयति' तस्य कुतो मनः परितोषः ॥ ६०० || 601 ) विघटतां मण्डलीबन्धो भज्यतां रासो न मुध्यते कृष्ण । उपयाचितकशतैर्लब्धस्तव हस्तो मम हस्तेन ।। ] काचिद् गोपी कथयति । हे कृष्ण मण्डलीबन्धो विघटतु । रासो भज्यताम् । न मुध्यते तव हस्तो मम हस्तेन नवसियस एहि लद्धो । पूर्णे मनोरथे यद् देवेभ्यो दीयते तत् नवसितम् । नवसितानां शतेन लब्धो मम हस्तेन तव हस्तः । परितुष्टदेवाद् वरसहस्रेण प्राप्तं हस्तं तावकीनं न मुखामीति ॥ ६०१ ।।
602) [ कृष्णो देवो देवा अपि प्रस्तराः सुतनु निर्माध्यन्ते । अश्रुभिर्न मृदूक्रियन्ते प्रस्तराः किं वा रुदितेन ॥ ] काचिगोपी खण्डिता मानमवलम्ब्य सुचिरं रुदती कयाचन सख्यैवमुध्यते । हे सुतनु कृष्णो देवः कथ्यते । देवाश्च प्रस्तरा निर्मायन्ते । अत एवाश्रुभिर्न मृदूभवन्ति प्रस्तराः । 1 G विशोधयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org