________________
-599 : ६९.१०]
कण्हवज्जा
597 )
धवलं धवलच्छीप महुरं महुराउरीइ मज्झम्मि । तकं विकंतीप कण्हो कण्हो त्ति वाहरिओ ॥ ८ ॥ 598) सच्चं चेय भुयंगी विसाहिया कण्ह तण्हडा होइ । संते विविणयतणए जीए धुम्माविओ तं सि ॥ ९ ॥ 599 ) केसव पुराणपुरिसो सच्चं चिय तं सि जं जणो भणइ । जेण विसाहियाए भमसि सया हत्थलग्गाए ॥ १० ॥
1
597) [ धत्रलं धत्रलाक्ष्या मधुर मथुरापुर्या मध्ये | तक्रं विक्रीणत्या कृष्णः कृष्ण इति व्याहृतम् ॥ ] कयाचिच्चञ्चलाक्ष्या' मधुरं यथा स्यात् तथा मथुरापुर्यामध्ये धवलं श्वतं तत्रं मथितं विक्रीणानया कृष्णः कृष्ण इति व्याहृतम् । एतेन किमुक्तं भवति । भगवति गतचित्ता धवलमपि त कृष्णमिति भगवतो नाम गृह्णाति स्मेति ॥ ५९७ ॥
१६३
1
I
598) [ सत्यमेत्र भुजङ्गी विशाखा कृष्ण तृष्णका भवति । सत्यपि विनतातनये यया धूर्णितस्त्वमसि ॥ ] हे कृष्ण', एव निश्वयेन विशाखातव कल - सत्यं भुजङ्गी । किंविशिष्टा । विषाधिका । विषेणाधिका विषाधिका । सत्यं भुजङ्गीति को भावः । भुजङ्गीति प्रोक्तेन सिद्धं सत्यमे - तद् रहस्यम् । यया त्वं सर्वदापि घूर्णितोऽसि । किंविशिष्टस्त्वम् । स्वाधीनविनतातनयः । विनतायास्तनयो विनतातनयो वैनतेयो गरुडः । यस्य भगवतो वाहनं गरुडस्तस्य भुजङ्गी किं करोति । यस्य नामसंकीर्तनेनैव कुलनागा धनं ( निधनं ) प्रयान्ति, तस्मिन् गरुडे वाहने विद्यमानेऽपि सा विशाखा भुजङ्गी भगवन्तं त्वां घूर्णयति । तदा सा विशाखा नाम तव कलत्रं कथं सत्यं भुजङ्गी न । अत एव सत्यं भुजङ्गी ॥ ५९८ ॥
599 ) [ केशव पुराणपुरुषः सत्यमेव त्वमसि यज्जनो भणति । येन विशाखया भ्रमसि सदा हस्तलग्नया || ] हे केशव' हे वासुदेव जनो
1 G, I धवलाक्ष्या 2 G, I present the following abridged version of the commentary हे कृष्ण सत्यं विशाखा भुजंगी एव सर्पिण्येव, बिलासिन्येव । यया विनतातनये गरुडे सत्यपि त्वं घूर्णापितोऽसि । 3 The commentary on this gāthā runs as follows in B, G, I हे केशव सत्यमेव त्वं पुराणपुरुषोऽसि यज्जनो भणति । येन हेतुना भ्राम्यसि सदा हस्तलग्नया विशाखया यष्टया, अथ च विशाखया गोपीभेदेन सदा हस्तलग्नया परिभ्रमति । एतेन कसारातिर्निमेषान्तरमपि विशाखां गोपीं न परित्यजति, अतिवाल्लभ्यात् तस्या इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org