________________
[ 595 : ६२.६
595) केसिवियारणरुद्विरुल्लकुप्परुग्धसण लंछणग्धवियं । न मुएइ कण्ह जुण्णं पि कंचुयं अज्ज वि विसाहा ॥ ६ ॥ 596) राहाइ कवोलत लुच्छलंत जोण्हाणिवायधवलंगो । रहर हसवावडाए धवलो आलिंगिओ कण्हो ॥ ७ ॥
१६२
I
तावज्जनार्दनो भिन्नाञ्जनचयोपमः, तत्रापि सूचिभेद्यान्धकारप्राग्भारभरिता रात्रिः । अपरं च । यदि पन्थास्त्रुटितो' भवेत् तदा भगवान्न प्राप्यत एवे - त्याह- निबिडवेतसा यमुना । सा च कालकाया कालजला कालियव्यालकुलं यमुना निरन्तरतरणिनिरुद्धसरणिः । अत एवाह । हे पुत्र भ्रमरी भव यदि वदनगन्धेन - भगवतः किल वदनोच्छ्रासः कमलकिञ्जल्कपुञ्जसब्रह्मचारी वर्तते तेन वदनगन्धेन यदि निजचित्तचौरं तम् उभयथाप्यनङ्गजनकं प्रामोषीति ॥ ५९४ ॥
―
ww
वज्जालगं
595) [ केशि विदारणरुधिरार्द्रकूर्परोद्धर्षणलाञ्छनार्चितम् । न मुञ्चति कृष्ण जीर्णमपि कञ्चुकमद्यापि विशाखा ।। ] हे कृष्ण । विशाखा गोपीभेदः । जीर्णमपि कञ्चुकमद्यापि न त्यजति । अमोचने कारणमाह । केशिनस्तुरंगदानवस्य यद्विदारणं, तेन यद्रुधिरं, तेनार्दो योऽसौ कूर्परः - 'कुहणी इति लोके - तस्योद्वर्षणेन यल्लाञ्छनं तेनार्चितम् । केशिदानवमारणरुधिरार्द्रकूपर लाञ्छनार्धितम् । दानव रुधिराक्तकूर्परगाढा लिङ्गनजनित लाञ्छनं कञ्चुकमद्यापि न त्यजति विशाखा । एतेन दानवारेर्नारायणस्य सुभटप्रकाण्डस्य वल्लभास्मीति गर्वायते स्म ।। ५९५ ।।
Jain Education International
596) [ राधया कपोलतलोच्छलज्ज्योत्स्ना निपातधवलाङ्गः । रतिरभसव्यापृतया धवल आलिङ्गितः कृष्णः ।। ] कयाचिद् गोप्या रतिरभसव्यापृतया कृष्णोऽपि धवल आलिङ्गितः । किंविशिष्टः । राधायाः कपोलतलोच्छलज्ज्योत्स्नानिपातधवलाङ्गः । एतेन राधाकपोलतलयोश्वाकचवयं वर्ण्यते स्म ॥ ५९६ ॥
1 G, I यदि पन्थाः स्थपुटितो ( uneven, full of ups and downs) भवेत्
,
For Private & Personal Use Only
www.jainelibrary.org