________________
-498 : ५१.२] जोइसियवज्जा
१३४ 496) इत्तो निवसइ अत्ता पत्थ अहं एत्थ परियणो सयलो।
ए पहिय रत्तिअंधय मा मह सयणे निमज्जिाहास ॥२५॥
५१. जोइसियवज्जा [ज्योतिषिकपद्धतिः] 497) दीहरखडियाहत्थो जोइसिओ भमइ नयरमज्झम्मि ।
जाणइ सुक्कस्स गई गणइ जइ गणावए को वि॥१॥ 498) जोइसिय मा विलंबसु खडियं घेत्तूण गणसु मह तुरियं ।
अंगारए पणढे सुक्कस्स गई तह च्चेय ॥२॥
496) [इतो निवसति श्वश्रूरत्राहमत्र परिजनः सकलः । हे पथिक रात्र्यन्ध मा मम शयने निमंक्ष्यसि ] इतो निवसति स्वपिति अत्ता श्वश्रः । अत्राहम् । इतः परिजनः सकलः । हे रात्र्यन्ध पथिक मा मम शयने निमंक्ष्यसि । काचनाङ्गल्या सकलपरिजनस्वापस्थान(दर्शन)व्याजेन पथिकस्य सुरताय समागच्छतो निशीथे आत्मनः स्थानं निवेदितवती ।। ४९६ ।।
497) [ दीर्घखटिकाहस्तो ज्यौति षिको भ्राम्यति नगरमध्ये । जानाति शुक्रस्य गतिं गणयति यदि गणयति कोऽपि ।। ] ज्यौतिषिको नगरमध्ये भ्राम्यति । किंविशिष्टः । दीर्घखटिकाहस्तः। जानाति शुक्रस्य गतिं भार्गवस्यातिचारम् । अस्मिन् राशौ नक्षत्रे शुक्रो गतो गमिष्यति गच्छतीति । अतो यदि कोऽपि गणयति कथयेति प्रतिपादयति, तदा गणयतीत्यक्षरार्थः । भावार्थस्त्वयम् । दीर्घशेफो नगरमध्ये भ्राम्यति, शुक्रस्य सप्तमधातोर्गतिं स्तम्भनं कर्तुं जानाति । अतः कारणाद्यदि काचन याभ्यति तदा याभयतु । शुक्रस्तम्भनेन तस्याः सुरतसुखं पूरयामीत्यर्थः ।। ४९७ ॥
___498) [ ज्यौतिषिक मा विलम्बस्व खटिकां गृहीत्वा गणय मम त्वरितम् । अङ्गारके ( अङ्गरते ) प्रनष्टे शुक्रस्य गतिस्तथैव ॥] ज्योतिषिक मा विलम्बस्व । मम गणय त्वरितम् । किं कृत्वा । खटिकां गृहीत्वा । अङ्गारके भौमे, पक्षे अगरते । प्रनष्टे । शुक्रस्यः मतिः शुक्रातिचारस्तथैवास्ते ॥ ४९८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org