________________
१३६
वजालगं
[ 499: ५१.३
499) अत्थि घर च्चिय गणओ विचित्तकरणेहि निडुरं गणइ । न जाणइ सुक्कगईं तेणाहं तुह घरे पत्ता ॥ ३ ॥ 500 ) जोइसिय कीस चुक्कसि विचित्तकरणाइ जाणमाणो वि । तह कह वि कुणसु सिग्धं जह सुकं निश्चलं होइ ॥ ४ ॥ 501) विवरीए रबिंबे नक्खत्ताणं च ठाणगहियाणं । न पडइ जलस्स बिंदू सुंदरि चित्तट्ठिए सुक्के ॥ ५ ॥
499) [ अस्ति गृह एव गणको विचित्रकरणैर्निष्ठुरं गणयति । न खलु जानाति शुक्रगतिं तेनाहं तव गृहे प्राप्ता ।। ] अस्ति गृह एव गणकः । विचित्रकरणैः, विचित्राणि यानि करणानि बवबालवादीनि सप्त, तैर्निष्ठुरं गणयति । परं न खलु जानाति शुक्रस्य गतिं शुक्रातिचारं, तेनाहं तत्र गृहे प्राप्तास्मीति । भावार्थस्त्वयम् । अस्ति गृहे एव गणको विचित्रकरणैर्नानाबन्धैर्निष्ठुरं गणयति । परं न खलु जानाति शुक्रस्तम्भनं, तेनाहं तव गृहे प्राप्तास्मीति । त्वं तथा कुर्वीथा यथा शुक्रो निश्चलः ( शुक्रं निश्चलं ) स्यादिति ॥ ४९९ ॥
1
500 ) [ ज्यौतिषिक किं प्रमाद्यसि विचित्रकरणानि जानानोऽपि । तथा कुरु कथमपि शीघ्रं यथा शुक्रो ( शुक्रं ) निश्चलो (निश्चलं) भवति ॥ ] ज्यौतिषिक किमिति भ्रमसि विचित्रकरणानि जानानोऽपि । तथा कथमपि कुरु शीघ्रं यथा शुक्रो निश्चलो भवति । पक्षे शुक्रं सप्तमो धातुर्वीर्यमिति ।। ५०० ॥
501 ) [ विपरीते रवि बिम्बे (रतिबिम्बे ) नक्षत्राणां (नखक्षतानां ) च स्थानगृहीतानाम् । न पतति जलस्य (बीजस्य ) बिन्दुः सुन्दरि चित्रास्थे (चित्तस्थे ) शुक्रे ॥ ] विपरीते रविबिम्बे पक्षे रतिबिम्बे । नक्षत्राणां नखक्षतानां च । न पतति जलस्य बिन्दु:, हे सुन्दरि, चित्रास्थे शुक्रे भार्गवे । पक्षे जलस्य बीजस्य, चित्तस्थे शुक्रे वीर्ये ॥ ५०१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org