________________
वज्जालग्गं
[ 493 : ५०.२२
494)
493) जणसंकुलं न सुन्नं रूसइ अत्ता न देइ ओआसं । ता वच्च पहिय मा मग्ग वासयं एत्थ मज्झ घरे ॥ २२ ॥ कह लब्भइ सत्थरयं अम्हाणं पहिय पामरघरम्मि । उन्नयपओहरे पेच्छिऊण जइ वससि ता वससु ॥ २३ ॥ 495 ) वस पहिय अंगण च्चिय फिट्टउ ता तुज्झ वसणदोहलओ इहगामे हेमंतो नवरं गिम्हस्स सारिच्छो ॥ २४ ॥
१३४
493) [ जनसंकुलं न शून्यं रुष्यति श्वश्रुर्न ददात्यवकाशम् । तज पथिकमा मार्गय: बासकमत्र मम गृहे ॥ ] हे पथिक, एतत्स्थानं जनसंकुलं, न शून्यम् । तव वासेऽनवकाशः । अत एव अत्ता श्वश्रू रुष्यति, न ददात्यवकाशं तव स्वप्तुम् । ततो व्रज, मा मार्गय वासकमत्र मम गृहे । इति प्राकृतोऽर्थः । भावार्थस्त्वयम् । हे पथिक, एतत्स्थानं जनसंकुलं न वर्ततेऽत एव शून्यमेतत् । अत्ता ( श्वश्रूः ) न रुष्यति, ददाति स्वप्तुमवकाशम् । तदा मा व्रज, किंतु वासं याचस्वात्र मम गृहे ॥ ४९३ ||
/
494) [ कथं लभ्यते स्रस्तरकं ( स्वस्थरतं ) अस्माकं पथिक पामरगहे | उन्नतपयोधरान् ( उन्नतपयोधरौ ) प्रेक्ष्य यदि वससि तद्वस॥ ] हे पथिक, अत्र का लभ्यते स्रस्तरकमस्माकं पामरगृहे । उन्नतान् पयोधरान् मेघान् दृष्ट्वा यदि वससि ततो वस । इति प्राकृत: ( अर्थ: ) । भावार्थस्वयम् । हे पथिक, अस्माकं पामरगृहे ग्रामीणगृहे सत्थरयं स्वस्थरतं प्राप्यते । अत्र कोऽर्थः । आत्मानं प्रति ग्रामीणत्वव्याजेन च्छेकमतल्लिका सुरतचातुर्यं प्रकटयति । तयोन्नती पयोधरौ मामकीनौ चिबुकोत्तम्भनरुची दृष्ट्वा यदि वससि ततोऽवश्यं वस । मया सह रमस्वेति प्रकारान्तरेण शब्दश्लेषेण प्रकटयति ॥ ४९४ ॥
495) [ बस पथिकाङ्गण एव भ्रश्यतु तावत्तत्र वसनदोहदः । इह ग्रामे हेमन्तः केवलं ग्रीष्मस्य सदृक्षः ॥ ] हे पथिक, अङ्गण एव वस । ततस्तव वसनदोहदो गच्छतु । नवरं केवलमत्र ग्रामे हेमन्तो ग्रीष्मसदृक्षः | कोऽर्थः । यद्यत्र वत्स्यसे तदा मत्कुचोष्मणा गतशीतो गतामपि रात्रिं न ज्ञास्यत इत्यर्थ: ।। ४९५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org