________________
-492:५०.२१] असईवज्जा
१३३ 490) अव्वो धावसु तुरियं कज्जल भरिऊण बे वि हत्थाई।
दिट्ठो कूवावडिओ असईणं दूसओ' चंदो ॥ १९ ॥ 491) मह एलि कीस पंथिय जइ हरासि नियंसणं नियंबाओ।
साहेमि कस्स पुरओ गामो दूरे अहं एका ॥२०॥ 492) अत्ता बहिरंधलिया बहुविहवीवाहसंकुलो गामो।
मज्झ पई य विएसे को तुज्झ वसेरयं देइ ॥२१॥ __490) [ अहो धाव त्वरितं कजलेन भृत्वा द्वावपि हस्तौ । दृष्टः कूपापतितोऽसतीनां दूषकश्चन्द्रः ।। ] अहो त्वरितं धाव कजलेन भत्वा द्वावपि हस्तौ । अयं चन्द्रः कूपपतितो दृष्टः । किं विशिष्टः । असतीनां दूषकः । चन्द्रमसः प्रतिमां कूपान्तःस्थामवलोक्य तदुपरि विरुद्धमनाः काचन स्वैरिणी "कज्जलेनामुं मलिनीकुरु येन ज्योत्स्नाजालं न विकिरति" इति सखीमुवाचेत्यर्थः ।। ४९० ।।
___491) [ मामेत्रि कस्मात्पथिक यदि हरसि निवसनं नितम्बात् । कथयामि कस्य पुरतो ग्रामो दूरेऽहमेका ।। ] हे पथिक किमिति मामेषि मामागच्छसि । यदि नितम्बान्निवसनं हरसि, आच्छिन सि, तदा कस्य पुरतः कथयामि । यतो ग्रामो दूरे ऽहमेका । अयमर्थः । मां प्रत्यागच्छन्किमिति बिभेषि । नितम्बाद्वस्त्रमपि यदि गलासि तदा कस्याग्रतः कथयाम्यहम् । आगमनं तावद् दूरे तिष्ठतु, मन्नीवीबन्धमुन्मोच्य तथा रमस्व यथा मनोऽभीष्टम् । दवीयसो ग्रामा दिदानी कोऽपि नागमिष्यतीति स्वयमेव याचनं पुंश्चल्या ।। ४९१ ।।
492) [ श्वश्रर्बधिरान्धा बहुविधविवाहसंकुलो ग्रामः । मम पतिश्च विदेशे कस्तव वासं ददाति ।। ] हे पथिक तब को नाम वासं ददाति । यतः श्वश्रूर्ब घिरान्धा, ग्रामश्च बहुविवाहसंकुलो, मम पतिश्च विदेशे, अतः को नाम उत्तरं ददाति । अयं भावः । श्वश्रस्तावन्न पश्यति, न शणोति । ग्रामलोकश्च गृहे गृहे विवाहव्यग्रः, मम पतिश्चात्र नास्ति । तस्मात्सर्वतोऽपि भीति परित्यज्य सकलां रात्रिं रमस्वेति भङ्गयोक्तवती काचन कुलटा ।। ४९२ ॥
1 G, I दूहओ 2 I बहिरंधलया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org