SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ २२८ वजालग्गं [472. : ५०.१५०. असईवजा [असतीपद्धतिः] ___472) नियडकुडंग' पच्छन्नदेउलं बहुजुवाणसंकिणं । थेरो पइ त्ति मा रुवसु पुत्ति दिना सि सुग्गामे ॥१॥ 473) मा रुवसु ओणयमुही धवलायतेलु सालिछेत्तेसु । हरियालमंडियमुहा नड व्व सणवाडया जाया ॥२॥ • 474) पुष्वेण सणं पच्छेण वंजुला दाहिणेण वडविडवो। पुत्तिइ पुण्णेहि विणा न लब्भर एरिसो गामो॥३॥ 472) [ निकटनिकुञ्ज प्रच्छन्नदेवकुलं बहुयुवसंकीर्णम् । स्थविरः “पतिरिति मा रुदिहि पुत्रि दत्तासि सुग्रामे ॥] हे पुत्रि मा रोदीः । ‘कथमिति । मम पतिः स्थविरः । यदि स्थविरस्तथापि मा रोदीः। किमिति। दत्तासि शोभनग्रामे । कथम् । निकटकुडंगं निकटगहनप्रदेशः । लताभिश्छन्नप्रदेशः कुडंग इत्यभिधीयते । प्रच्छन्नदेवकुलम् । बहुयुवसंकीर्णम् । कोऽर्थः । एतेषु सत्सु तव का नाम चिन्ता । केनापि मनोऽभीष्टेन यूना सह रतं कुर्वीथा इति ॥ ४७२ ।। 473) [ मा रुदिावनतमुखी धवलीभवत्सु शालिक्षेत्रेषु । हरितालम"ण्डितमुखा नटा इव शणवाटका जाताः ॥ ] हे पुत्रि धवलीभवत्सु शालि. क्षेत्रेषु नतमुखी मा रोदीः । कुतः । शणवाटका हरितालमण्डितमुखा नटा इव संजाताः । अयं भावः । काचन स्वैरिणी पक्वेषु शालिक्षेत्रेषु मम सुरतस्थानं क्षेत्रं लविष्यते । एतत्पश्चात् सुरतस्थानं क्व भावीति रुदत्यन्यया सख्यागत्य " किमिति रोदिषि, तव सुरतस्थानान्तरमेते शणवाटाः पुरुषद्वयसा संजाताः सन्ति " इति मा रोदनं कार्षीरिति न्यवारि ॥ ४७३ ॥ 474) [ पूर्वेण शणः पश्चाद् वञ्जुला दक्षिणेन वटविटपः । पुत्रिके पुण्यैर्विना न लभ्यत ईदृशो ग्रामः ।। ] हे पुत्रि, ईदृशो ग्रामो न लभ्यते पुण्यैर्विना । पूर्वेण पूर्वस्यां ( दिशि ) शणः शणवाटः । पच्छेण पाश्चात्यभागेन वंजुला वेतसवृक्षाः । दक्षिणेन भागेन ग्रामस्य वटविटपः ।। ४७४ ॥ - 1 1 °कुटुंगं 2 I adds : अत्यद् व्याख्यानान्तरम् ईदृशीनां गाथानां श्रीत्रिभुवनपालविवृ तितः छेकोक्तिविचारलीलया ज्ञेयम् । यतोऽहं लेखक एव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001383
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages708
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy