SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ -471 : ४९.९] . सईवजा 469) इहपरलोयविरुद्धण कण्णकडुएण गरहणिज्जेण । उभयकुलदूसणिज्जेण दूइ किं तेण भणिएण ॥ ७ ॥ 470) जइ सो गुणाणुराई गुणन्नुओ मह गुणे पसंसेइ । पढमं चिय जइ असई गुणगणणा का तह च्चेय ॥ ८॥ 471) जइ उत्तमो' वि भण्णइ मह पुरओ सो वि सुयणु अणुदिय। मामि न उत्तम'पुरिसा परस्स दाराइ पेच्छंति ॥९॥ न कुलक्रमेण महिलानाम् । स्वर्ग गतेऽपि हाले सातवाहने गोला गोदावरी पइठाण (प्रतिष्ठानं ) नाम नगरं न मुञ्चति । यथा पुरुषश्चेच्छीलवान् स्त्र्यपि शीलवती । यदि सातवाहनस्य कोऽपि गुणोऽभूत् तदा तस्मिन्स्वर्ग गतेऽपि प्रतिष्ठानं नगरम् अद्यापि न त्यजति ( गोदावरी) यथा काचित्सती भर्तरि मृतेऽपि पतिस्थानं न मुञ्चति ।। ४६८ ।। 469) [ इहपरलोकविरुद्धेन कर्णकटुकेन गर्हणीयेन । उभय कुलदूषणीयेन दूति किं तेन भणितेन ।। ] हे दूति किं तेन भणितेन । किंवि-- शिष्टेन । इहपरलोकविरुद्धेन, कर्णकटुकेन गर्हणीयेन, उभयकुलदूषणीयेन । अयमर्थः । काचन दूती केनचित् पुंश्चलेन प्रेरिता सतीमतल्लिकामागत्यामुकं. भजस्वेत्युक्तवती । तां चैवं ब्रुवाणां सती प्रत्युत्तरयति ॥ ४६९ ॥ 470) [ यदि स गुणानुरागी गुणज्ञो मम गुणान् प्रशंसति । प्रथममेव यद्यसती गुणगणना का तथा चैव ॥ ] यदि स गुणानुरागी गुणज्ञो. मम गुणान् बहु मन्यते, अहं चासती भवेयं यदि, तदा मम क इमे. गुणाः ॥ ४७० ॥ . 471) [ यद्युत्तमोऽपि भण्यते मम पुरतः सोऽपि सुतन्वनुदिवसम् । मामि नोत्तमपुरुषाः परस्य दारान् प्रेक्षन्ते ।। ] काचन सती, " असावुत्तमस्त्वद्गुणान् बहु मन्यते” इति ब्रुवाणां दूती प्रत्युत्तरयति । यदि त्वया अनुदिवसं मम पुरतो हे सुतनु "उत्तमः सः" इति भण्यते, तदा हे मामि हे सखि य उत्तमपुरुषास्ते परदारान् न पश्यन्ति ।। ४७१ ।। 1 I उत्तिम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001383
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages708
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy