________________
-464 : ४९.२] . सईवजा
१२५ 462) अहियाइमाणिणो दुग्गयस्स छाहिं पइस्स रक्खती। नियबंधवाण जूरइ घरिणी विहवेण पत्ताणं ॥८॥
४९. सईवज्जा [सतीपद्धतिः] 463) उम्मेउ अंगुलिं सा विलया जा मह पई न कामेइ ।
सो को वि जंपउ जुवा जस्स मए पेसिया दिही ॥१॥ 464) चञ्चरघरिणी पियदसणा वि तरुणी पउत्थवइया वि।
असईसइज्झिया' दुग्गया वि न हु खंडियं सीलं ॥२॥ भक्तशेषं क्षुधाक्लान्तापि दुःखितेभ्यो ददाति यतः, वराक्यो रोरगहिण्यः क्षीयन्ते ।। ४६१ ।।
462) [ अभिजातिमानिनो दुर्गतस्य च्छायां पत्यू रक्षन्ती । निजबान्धवेभ्यः क्रुध्यति गृहिणी विभवेन प्राप्तेभ्यः ।। ] गहिणी निजबान्धचेम्यः ईर्ध्यति । किंविशिष्टेभ्यः । विभवेन गृहं प्राप्तेभ्यः । किं कुर्वती। पत्युश्छायां पतिशोभा रक्षन्ती। किं विशिष्टस्य पत्युः । आभिजात्यमानिनः । दुर्गतस्य मम पत्युर्दारिद्रयेण भोजनादिपूजामकुर्वतो मानहानिस्तेषु बान्धवेष्वागतेषु मा भूदिति तानपि द्वेष्टि इति सत्कलत्रत्वम् ॥ ४६२ ॥
463) [ ऊर्वीकरोत्वगुलिं सा वनिता या मम पतिं न कामयते । स कोऽपि कथयतु युवा यस्य मया प्रेषिता दृष्टिः ॥] विलया वनिता सागुलिमूर्वीकरोतु, या मम पतिं न कामयते । स कोऽपि कथयतु युवा यस्य मया प्रेषिता दृष्टिः । अस्मिन्नगरेऽमू: सर्वा अपि कामिन्यो मत्कमितारं कामयन्ते । अहं तु न कमपीति अर्यो यदि मृषा तदा वदतु कोऽपीत्यर्थः। ." वनिताया विलया" इति प्राकृतसूत्रेण (हेमचन्द्र ८.२.१२८) निपातः ।। ४६३ ॥
464) [चत्वरगृहिणी प्रियदर्शनापि तरुणी प्रोषितपतिकापि । असतीप्रातिवेश्मिका दुर्गतापि न खलु खण्डितं शीलम् ।। ] चत्वरगृहिण्यपि चतुष्पथगृहस्थितापि । तया न खलु खण्डितं शीलम् । कदाचिद्रूपवती न भवेत्तदा को नाम कामयते ताम् । अतः प्रियदर्शनापि । यद्यपि तादृश्यपि कदाचिदनवतीर्णतारुण्या भवेत् । तरुणी । तरुण्यपि कदाचिन्निकटवर्ति- 1 G असईसहज्जिया 2 G जात्यभिमानिनः, I आभिजात्याभिमानिनः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org