SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १२४ वज्जालग्गं [459 : ४८.५-. 459) बंधवमरणे वि हहा दुग्गयघरिणीइ वि न तहा रुण्णं । अप्पत्तबलिविलक्खे वल्लहकाए समुडीणे ॥५॥ 460) अमुणियपियमरणाए वायसमुडाविरीइ घरिणीए। रोवाविजइ गामो अणुदियहं बद्धवेणीए ॥६॥ 461) डिभाण भुत्तसेसं छुहाकिलंता वि देइ दुहियाणं । कुलगोरवेण वरईउ रोरघरिणीउ झिजति ॥७॥ च दुर्गतगहिणीकुलबालिका तया ग्रामो रोद्यते स्म । किं कुर्वत्या । मङ्गलवलयान्यविधवात्वसूचकानि वलयानि विक्रीणानया । क सति । प्रियश्चासौ प्राधर्णकश्च प्रियप्राघूर्णकस्तस्मिन् प्राप्त आगते । प्राघूर्णकमागतं वीक्ष्य मङ्गलवलयान्यपि विक्रीणानां दरिद्रकुटुम्बिनीमवलोक्य धिगिदं दारिद्रयमस्या वराक्या इति सकलग्रामो रोदितीत्यर्थः ।। ४५८ ।। ___459) [ बान्धवमरणेऽपि हहा दुर्गतगृहिण्यापि न तथा रुदितम् । अप्राप्तबलिविलक्षे वल्लभकाके समुड्डीने ।। ] दुर्गतगहिण्या बान्धवमरणेऽपि' नैव तथा रुदितम् । हहेति खेदे । यथाप्राप्तबलिविलक्षे वल्लभकाके समुड्डीने । अयं भावः । वल्लभागमनार्थं पृष्टः काकः किल स्वरचेष्टाविशेषेण तदागमनं कुशलम्' अचक्थत् । तत्पूजार्थं बल्यर्थं तत्किमपि नास्ति येन बलिं संपाद्य तस्मै निवेदयति । पश्चात्तस्मिन्नुड्डीने अहो अहं दुर्भगशिरोमणिर्यदस्मै प्रियशकुनसूचकाय कवलमपि न न्यवेदय मिति तारस्वरं रुरोद ॥ ४५९ ।। 460) [अज्ञातप्रियमरणया वायसमुड्डायिन्या गहिण्या। रोधते ग्रामोऽ-- नुदिवसं बद्धवेण्या ।।] गहिण्यानुदिवसं ग्रामो रोद्यते । किं कुर्वत्या तया । वायसं काकम् उड्डायनशीलया। विशेषणद्वारा रोदनकारणमाह । किंवि-. शिष्टया गृहिण्या। अज्ञात प्रियमरणया । अयमर्थः । अहो पत्युर्मरणवार्तामजानानाया अस्या वरावया " भोः काक, उड्डयस्व मम भर्तागमिष्यति"" इति दशां पश्यन्तो ग्रामस्था लोका रुरुदुः । वायसमागतं वीक्ष्य प्रोषितपतिभ्रात्रादयः स्त्रिय एवं कुर्वन्तीति तासां स्वभावः ॥ ४६० ॥ 461) [ डिम्भानां भुक्त.शेषं क्षुधाक्लान्तापि ददाति दुखितेभ्यः । कुलगौरवेण वरावयो दरिद्रगृहिण्यः क्षीयन्ते ।। ] दुर्गतगृहिणी डिम्भाना 1I शकुनम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001383
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages708
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy