________________
वज्जालग्गं
[430:४४.९० 430) नयणभंतरघोलंतबाहभरमंथराइ दिट्ठीए।
पुणरुत्तपेच्छिरीए बालय ता किं न भणिओ सि ॥९॥ 431) सुहय गयं तुह विरहे तिस्सा हिययं पवेविरं अन्ज ।
करिचलणचंपणुच्छलियतुच्छतोयं मिव दिसासु ॥१०॥ 432) सा तइ सहत्थदिनं अज्ज वि ओ सुहय गंधरहियं पि।
उज्वसियणयरघरदेवय व्व ओमालयं' वहइ ॥ ११॥
पञ्जरशकुनायितं पञ्जरस्थितशकुनवत् आचरितम् । किंविशिष्टया तया । एकैकस्य वृतिवेष्टकस्य' विवरान्तरतरलदत्तनयनया। त्वामवलोकयितुं दत्तवृतिविवरनयनया पञ्जर स्थितशकुनवत् संजातमिति भावः ॥४२९ ॥
430) [ नयनाभ्यन्तरघूर्णद्वाष्पभरमन्थरया दृष्टया । पुनरुक्तप्रेक्षणशीलया बालक ततः किं न भणितोऽसि ॥ ] हे बालक ततः किमिति न भणितोऽसि । केन साधनेनेत्याह । दृष्टया । किं विशिष्टया दृष्टया । नयनाभ्यन्तरपूर्णद्वाष्पभरमन्थरया । पुनरुक्तं पुनः पुनः प्रेक्षणशीलया । किमिति न भणितोऽसि । त्वामवलोकयन्त्या त्वद्विरहाश्रुपातकलुषितया पुनः पुनः प्रेषितया दृष्टया भणितोऽस्येव ।। ४३० ॥
431) [सुभग गतं तव विरहे तस्या हृदयं प्रवेपनशीलमध । करिचरणाक्रमणोच्छलिततुच्छतोय मिव दिक्षु ।। ] हे सुभग त्वद्विरहे ( तस्याः ) प्रकम्पनशीलं हृदयं दिक्षु गतम् । किमिव । करिचरणाघातोच्छलितं स्तोकं तोयं प्रकम्पनशीलं सद् यथा दिक्षु याति ।। ४३१ ॥
432) [ सा त्वया स्वहस्तदत्तामद्याप्यहो सुभग गन्धरहितामपि । उद्वासितनगरगृहदेवतेवावमालिकां वहति ।।] हे सुभग, सा बाला त्वया स्वहस्तदत्ताम् । 'ओ' इत्यहो, ओमालियं अवमालिकां पुष्पमाला वहति । कदाचिच्छुभगन्धा भवेत्तर्हि वहतु नामेत्याह । गन्धरहितामपि । केव । उद्वासितनगरगृहदेवतेव । त्वद्दत्तां मालिकां त्वत्समर्पितस्थपनिकामिव( ? ) त्वत्संगमैषिणी वहतीत्यर्थः ॥ ४३२ ।।
1 G ओमालियं 2 I वृतिवेष्टितविवरान्तर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org