________________
-+13 : ४३.१]
दुईवज्जा 411) ता किं करेमि पियसहि पियस्स सोहग्गभारभमिरस्स।
रायंगणं व खुब्भह जस्स घरं दूइसंघेहिं ॥९॥ 412) तह तेण वि सा दिवा तीए तह तस्स पेसिया दिली। जह दोण्ह वि समयं चिय निव्वत्तरयाइ जायाई ॥ १०॥
४३. दूईवज्जा [ दूतीपद्धतिः] 413) दूइ तुम चिय कुसला कक्खडमउयाइ जाणसे वोत्तं ।
कंडुइयपंडुरं जह न होइ तह तं कुणिज्जासु ॥१॥
लक्ष्पेऽपि दृष्टिगोचरेऽपि लक्षं जनान्नैव लक्षयति । लक्षमपि जनाननालोक्य प्रियमेवायलोकयति लोचनयुगलम् ।। ४१० ॥
411) [ तत् किं करोमि प्रियसखि प्रियस्य सौभाग्यभारभ्रमणशीलस्य । राजाङ्गणमिव क्षुभ्यति यस्य गृहं दूतीसंधैः ॥] ततः किं करोमि प्रियसखि प्रियस्य सौभाग्यभारभ्रमणशीलस्य । अपि तु न किमपि । यतो यस्य गृहं वासस्थानं दूतोसंधैः क्षुभ्यते । किमिव । राजाङ्गणमिव । यथा राजाङ्गणं दूतसंधैरन्यराजप्रेषितैर्दूतैः क्षुभ्यते । अयं भावः । यं सुभगयुवावतंसं सर्वा अपि नार्यों दूतीः प्रेषयित्वा ( ? प्रेष्य ) प्रत्यहं कामयन्ते तत्र मादृशो जनस्य मानवैरी कथमवकाशं लभतामिति ॥ ४११ ॥
412) [ तथा तेनापि सा दृष्टा तया तथा तस्य प्रेषिता दृष्टिः । • यथा द्वयोरपि सममेव निर्वृत्तरतानि जातानि ।। ] तेनापि तथा सा दृष्टा
तयापि तस्य प्रेषिता दृष्टिस्तथा, यथा द्वयोरपि सममेवैककालमेव निर्वृत्तर• तानि जातानि । युवा तया कटाक्षितस्तेनापि सा कटाक्षिता, यथा • गाढालिङ्गनं विनापि सुरतसुखमन्वभूतामिति भावः ।। ४१२ ।।
413) [ दूति त्वमेव कुशला कठिनमृदूनि जानासि वक्तुम् । कण्डूयितपाण्डुरं यथा न भवति तथा त्वं कुर्याः ॥] हे दूति त्वमेव कुशला कठिनमृदूनि जानासि वक्तुम् । कण्डूयितपाण्डुरं यथा न भवति तथा त्वं कुर्याः । यथा स्वयमेव प्रियमभिससारेषेति लघुतां यथा न यामि, कार्य च यथा सिध्यतीति । कण्डूयितपाण्डुरं ( ? कण्डूयितं पाण्डुरं ) यथा न संपद्यत इति ॥ ४१३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org