SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ૨૨ वजालग्गं [+14:४३.५414) कित्तियमेत्तं एवं एसावत्था उ सहि सरीरस्स । महिला महिलाण गई जं जाणसि तं कुणिज्जासु ॥२॥ 415) जं तुह कज्ज भण तं मह त्ति जं जाणिउं भणेज्जासु। ओ दुइ सञ्चवयणेण तं सि पारं गया अज्ज ॥३॥ 416) तिलयं विलयं विवरीय कंचुयं सेयभिन्न सव्वंगं । पडिवयणं अलहंती दुई कलिऊण सा हसिया ॥४॥ 417) जइ सो न एइ गेहं तो दूइ अहोमुही तुमं कीस । सो होही मज्झ पिओ जो तुज्झ न खंडए क्यणं ॥५॥ 414)[ कियन्मात्रमेतदेषावस्था तु सखि शरीरस्य । महिला महिलानां गतिर्यज्जानासि तत्कुर्याः ॥] हे सखि कियन्मात्रमेतत्, एषावस्था तु शरीरस्य । महिला महिलानां गतिर्यज्जानासि तत्कुर्याः । मम भर्तुः परःसहस्रा अपराधाः । तेषु सत्सु यदि मानमवलम्बेय तर्हि शरीरस्येयमवस्था । अतः कारणादेवंविधे व्यतिकरे त्वमेव मम शरणम् । येन केन प्रकारेण स आगच्छ ति तद् विदधीथा इति भावः ।। ४१४ ॥ ___415) [ यत्तव कार्य भण तन्ममेति यज्ज्ञातुं भणेः । हे दूति सत्यवचनेन त्वमसि पारं गताद्य ।। 1 यत्तय कार्यं तन्मह्यं भण। यज्ञातुं तद्भणेः । ओ दूइ हे दूति, सत्यवचनेन त्वं पारं गतासि अद्य ॥४१५॥ 416 ) [ तिलकं विलयं विपरीतं कञ्चुकं स्वेद भिन्नं सर्वाङ्गम् । प्रतिवचनमलभमाना दूती कल यित्वा सा ह सिता ।। ] तिलकं विलयं, विपरीतं कञ्चुकं, स्वेद भिन्नसर्वाङ्गम् । प्रतिवचनमलभमाना कोपेनः 'एवमकार्षीहें दूति ' इति कल यित्वा वा हसिता ।। ४१६ ॥ 417 ) [ यदि स नैति गेहं तद् दूति अधोमुखी त्वं कस्मात् । स भविष्यति मम प्रियो यस्तव न खण्डयति वचनं ( वदनम् )|| हे दृति यदि स न गेहमेति, ततस्त्वं किमित्यधोमुखी भवसि । स भविष्यति ममः प्रियो यस्तव वचनं न खण्डयति, तवादेशं करिष्यति । अयं भावः । कयाचिन्नायिकया प्रेषिता दूती प्रियं प्रति, तत्रैव तेन सह सुरतसुखमनुभय खण्डिताधरा, एवं विधं मुखं कथं तस्यै दर्शयामीत्यधोमुखी आगतवती । तां च तथाविधामवलोक्य नायिका प्रकारान्तरेण प्रतिभिनत्ति । हे सखि) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001383
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages708
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy